सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रान्तः कथाचदावृत्य स दश महत्सरः । तत्त र ता नशा नतुकामवादवातरत् ॥
दत्त्वा तृणोदकं तस्माथाहृताम्बुफलोदकः। विश्रान्तश्चैकतोऽकस्माद ऋणोद्गीतनिःस्वनम् ॥
गत्वा तदनुसारेण कौतुकान्नातिदूरतः । सोऽपश्यच्छिवलिङ्गाने गायन्तीं दिव्यकन्यकाम् ॥
केयमद्भुतरूपा स्यादिति तं च सविस्मयम् । साप्युदाराकृतिं दृष्ट्वा कृत्वातिथ्यमवोचत ॥
कस्त्वं कथमिमां भूमिमेकः प्राप्तोऽसि दुर्गमाम् । एतच्छुत्वा स्ववृत्तान्तमुक्त्वा पप्रच्छ सोऽपि ॥
त्वं मे कथय कासि त्वं वनेऽस्मिन्का च ते स्थितिः । इति तं पृष्टचन्तं च दिव्यकन्या जगाद ॥
कौतुकं चेन्महाभाग तद्वच्म शृणु मकथाम् । इत्युक्त्वा सा लसद्वष्पपूरा वक्तुं प्रचक्रमे ॥
अस्तीह काञ्चनाभाख्यं हिमाद्रिकटके पुरम् । पञ्चकूटाभिधानोऽस्ति तत्र विद्याधरेश्वरः॥
तस्य हेमप्रभादेव्यां राज्ञः पुत्राधिकप्रियाम् । मनोरथप्रभां नाम विद्धि मां तनयामिमाम् ॥
साहं विद्याप्रभावेण सखीभिः सममाश्रमान् । द्वीपानि कुलशैलांश्च वनान्युपवनानि च ॥
क्रीडित्वा प्रत्यहं चैवमाहारसमये पितुः। आगच्छामि स्वभवनं वासरप्रहरैस्त्रिभिः ॥
एकदाहमिह प्राप्ता विहरन्ती सरस्तटे । मुनिपुत्रकमद्राक्षी सवयस्यमिह स्थितम् ॥
तदुपशोभया सृष्टा दूत्येवाहं तमभ्यगाम् । सोऽपि साकूतया दृश्यैवाकरोस्वागतं मम ॥
ततो ममोपविष्टायाः सखी ज्ञातोभयाशया । कस्त्वं ब्रूहि महाभागेत्यपृच्छत्तद्वयस्यकम् ॥
स चाब्रवीतद्वयस्यो नातिदूरमितः सखि । निवसत्याश्रमपदे मुनिर्दीधितिमानिति ॥
स ब्रह्मचारी सरसि स्नातुमत्र कदाचन । आगतो ददृशे देव्या तत्कालागतया श्रिया ॥
खा तं शरीरेणाप्राप्यं प्रशान्तं मनसैव यत् । सकामा चकमे तेन पुत्रं संप्राप मानसम् ॥
त्वद्दर्शनान्ममोत्पन्नः पुत्रोऽयं प्रतिगृह्यताम् । इति नीत्वैव तज्जातं सा दीधितिमतः सुतम् ॥
बालकं मुनये तस्मै समर्थं श्रीस्तिरोदधे । सोऽप्यनयसलब्धं तं पुत्रं हृष्टोऽग्रहीन्मुनिः॥
रश्मिमानिति नाम्ना च कृत्वा संवर्यं च क्रमात् । उपनीय स सर्वो विद्यः स्नेहादशिक्षयत् ॥
तं रश्मिमन्तं जानीतमेतं मुनिकुमारकम् । श्रियः सुतं मया साकं विहरन्तमिहागतम् ॥
इत्युक्त्वा तद्वयस्येन पृष्टा तेनापि मत्सखी । सा सनामन्वयं सर्वं मदुक्तं तं तदब्रवीत् ॥
ततोऽन्योन्यान्वयज्ञानान्नितरामनुरागिणौ । मुनिपुत्रः स चाहं च यावत्तत्र स्थितावुभौ ॥
तावदेत्य द्वितीया मां स्वगृहादवत्सखी । उत्तिष्ठाहारभूमौ त्वां पिता मुग्धे प्रतीक्षते ॥
तच्छुत्वा शीघ्रमेष्यामीत्युक्त्वावस्थाप्य चात्र तम् । मुनिपुत्रं गताभूवं भीत्या पितुरन्तिकम् ॥
तत्र किंचित्कृताहारा यावच्चाहं विनिर्गता । तावदाद्य सखी सL मामागत्य स्वैरमब्रवीत् ॥
आगतो मुनिपुत्रस्य तस्येह स सखा सखि । स्थितश्च प्राङ्गणद्वारि सवरश्च ममावदत् ॥
मनोरथप्रभापार्श्वमहं रश्मिमताधुना । प्रेषितो व्योमगमनीं विद्यां दत्वैव पैतृकीम् ॥
प्राणेश्वरीं विना तां हि मदनेन स दारुणाम् । दशां नीतो न शक्नोति प्राणान्धारयितुं क्षणम् ॥
तच्छुत्वैवस्मि निर्गत्य तेन युक्तामयायिना । सुनिपुत्रकमित्रेण सख्या चाहमिहागता ॥
प्राप्ता च तमिह द्राक्षा मुनिपुत्रं विना मया । चन्द्रोद्मेनैव समं वृत्तप्राणोद्न्मृतम् ॥
ततोऽहं तद्वियोगातुं निन्दन्ती तनुमात्मनः । प्रवेष्टुमैच्छमनलं गृहीत्वा तत्कलेवरम् ॥
तावद्दिवोऽवतीयैव तेजःपुजाकृतिः पुमान् । आदाय तच्छरीरं तदुत्पत्य गगनं ययौ ॥
अथाहं केवलैवाग्नौ पतितं यावदुद्यता । तावदुचरति स्मैवं गगनादिह भारती ॥
मनोरथप्रभे मैवं कृथा भूयो भविष्यति । एतेन मुनिपुत्रेण तव कालेन संगमः ॥
एतच्छुत्वा परावृत्य मरणात्तत्प्रतीक्षिणी । स्थितास्मीहैव बद्धशा शंकरार्चनतत्परा ॥
नियममोsपि न शे ETCशrer । ॥