इत्युक्त्वात्र स्थित बल पप्रच्छ तद्भज ९, १ ॥
पृष्ठभूमाविहरुह्य कोऽप्यासीद्दिवसे युवा । रात्रौ तेनावतीर्येव तातो मे पश्यतो हतः ॥
अम्बा तु मां गृहीत्वादौ तातपाधीत्तदोत्थिता । इत्युक्ते शिशुना बुट्टा भार्यांजारेण तं हतम् ॥
जघ्नुस्तद्वन्धवोऽन्विष्य तारं तं तदैव ते ।स्वीकृत्य तं शिशं तां च दुःशीलां निरवासयन् ॥
इत्यन्यरक्तचित्ता स्त्रीभुजंगी हन्त्यसंशयम् । एवं हरिशिखेनोक्ते बभाषे गोमुखः पुनः ॥
किमन्येनेह यदृतं वङ्गसारस्य संप्रति । वत्सेशसेवकस्येह हास्यं तच्छूयतामिदम् ॥
तस्य शूरस्य कान्तस्य सुरूपा मालवोद्भवा । वङ्गसारस्य भार्याभूत्स्वशरीराधिकप्रिया ॥
एकदा तस्य भार्यायास्तस्याः पुत्रान्वितः पिता । निमत्रणाय मालव्यः खोकठोऽभ्याययौ स्वय ॥
वअसारोऽथ सत्कृत्य तं स राज्ञे निवेद्य च । निमन्त्रिततेन समं सभार्यो मालवं ययौ ॥
मासमात्रं च विश्रस्य सोऽत्र श्वशुरवेश्मनि । इदंगाद्राजसेवार्थं तद्भार्या त्वास्त तत्र सा ॥
ततो दिनेषु यातेषु वङ्गसारमुपेत्य तम् । अकस्मात्क्रोधनो नाम सुहृदेवमभाषत ॥
भार्या पितृगृहे त्यक्त्वा किं गृहं नाशितं रैवया । तत्रान्यपुरुषसङ्गः पापया हि कृतस्तया ॥
आगतेन ततोऽवैतदाप्तेन कथितं मम । मा मंस्था वितथं तस्मान्निगृहृतां वहापराम् ॥
इत्युक्त्वा क्रोधने याते स्थित्वा मूढ इव क्षणम् । अचिन्तयद्वसारः शक्रे सत्यं भवेदिदम् ॥
आढ्यके विसृष्टेऽपि सान्यथा नागता कथम् । तदेतां स्वयमानेतुं यामि पश्यामि किं भवेत् ॥
इति संकल्प्य गत्वैव मालवं श्वशुरौ स तौ । अनुज्ञाप्य गृहीत्वैतां भार्यां प्रस्थितवांस्ततः ॥
गत्वा च दूरमध्वानं स युक्त्या वञ्चितानुगः । उत्पथेनाविशद्भार्यामादाय गहनं वनम् ॥
तत्रोपवेश्य मध्ये तां विजने वदति स्म सः । त्वमन्यपुरुषासक्तयाप्तान्मित्रान्मया श्रुतम् ॥
मया चात्र स्थितेनैव यदाहूतासि नागता । तत्सत्यं ब्रूहि नो चेद्वा करिष्ये निग्रहं तव ॥
तच्छुत्वा तमवादीत्सा तवैष यदि निश्चयः । तकि पृच्छसि मां यत्ते रोचते तत्कुरुष्व मे ॥
सावज्ञमाकण्थं वचस्तस्याः स कोपतः । वङ्गसारस्तरौ बढ़ा लेताभिस्तामताडयत् ॥
वस्त्रं हरति यावच्च तस्यास्तवद्विलोक्य ताम् । नमां रिरंसा मूढस्य तस्यजायत रागिणः ॥
ततो निवेश्य बद्धां तां रन्तुमाश्लिष्यति स्म सः । नेच्छति स्म च सा तेन प्राथैमाना जगाद ॥
लताभिस्ताडिता बढं यथाहं भवता तथा । यद्यहं ताडयेयं त्वां तत इच्छामि नान्यथा ॥
तथेति प्रतिपेदे तत्स च व्यसनभोहितः । तृणसारीकुतश्चित्रं वअसारो-मनोभुवा ॥
ततः सहस्तपदं तं सा बबन्ध दृढं तरौ । तच्छत्रेणैव बद्धस्य कर्णनासं चकर्त सा ॥
गृहीत्वा तस्य शस्त्रं च वासांसि च विधाय च । पापा पुरुषवेषं सा यथाकाममगात्ततः ॥
वअसारस्तु तत्रासीच्छिन्नश्रवणनासिकः । गलता शोणितौघेन मानेन च नताननः ॥
अथ तत्रागतः कश्चिद्ध्यर्थं वने भिषक् । दृष्ट्वा तं कृपयोन्मुच्य साधुः स्वं नीतवान्गृहम् ॥
तत्र चाश्वासितस्तेन शनैः स्वगृहमागमत् । स वश्रसारो न च तां चिन्वन्प्राप कुगेहिनीम् ॥
अवर्णयच्च तं तस्मै वृत्तान्तं क्रोधनाय सः । तेनापि वत्सराजाने कथितं सर्वमेव तत् ॥
अयं निष्पौरुषामर्षः स्त्रीभूत इति भार्यया । पुंवेषोऽस्य हृतो नूनं निग्रहश्चोचितः कृतः ॥
इति राजकुले सर्वजनोपहसितोऽपि सः । वङ्गसार इहैवास्ते वञ्जसारेण चेतसा। ॥
तदेवं कस्य विश्वासः स्त्रीषु देवेती गोमुखे । उक्तवत्यथ भूयोऽपि जगाद मरुभूतिकः ॥
अप्रतिष्टं मनः स्त्रीणामत्रापि श्रूयतां कथा । पूर्वं सिंहबलो नाम राजाभूद्दक्षिणापथे ॥
तस्य कल्याणवत्याख्यः सर्वान्तःपुरयोषिताम् । प्रिया माळवसामन्तसुता भार्या बभूव च ॥
तया सह स राज्यं स्वं शासन्नपतिरेकदा । निष्कालितोऽभदलिभिर्देशात्संभय गोत्रजैः ॥
इत
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०८
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति