पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
[ आदितरू
कथासरित्सागरः

अन्येद्युश्च प्रविष्टेन दृष्टा सान्यादृशी मया । पृष्टा भार्या यथावृत्तं सभिमानेव मेऽभ्यधात् ॥
तत्क्रमेणैव तां भार्यामशक्तस्य निषेधने । नित्यमेवोपभुञ्जनः स ममोत्तब्धवानृपः ॥
कुतो गम्यमगम्यं वा कुशीलोन्मादिनः प्रभोः । वातोलूतस्य दावानेः किं तृणं किं च काननम ॥
ततो यावद्भतिर्मेऽस्ति न काचित्तन्निवारणे । तावत्स्वल्पाशनक्षामो मान्द्यव्याजमशिश्रियम् ॥
तादृशश्च गतोऽभूवं राज्ञस्तस्याहमन्तिकम् । स्वव्यापारोपसेवायै निःश्वसन्कृशपाण्डुरः॥
तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः। पप्रच्छ रे किमीदृक्त्वं संजातः कथ्यतामिति ॥
निर्बन्धपृष्टस्तं चाहं विजने याचिताभयः । प्रत्यवोचं नृपं देव भार्यास्ति मम डाकिनी ॥
सा च सुप्तस्य मेऽत्राणि गुदेनाकृष्य चूषति । तथैव चान्तः क्षिपति तेनाहं क्षामतां गतः ॥
पोषणाय च मे नित्यं बृहणं भोजनं कुतः। इत्युक्तः स मया राजा जाताशझे व्यचिन्तयत् ॥
किं सत्यं डाकिनी सा स्यात्तेनाहं किं हृतस्तया । किंस्विदाहारपुष्टस्य चूषेदत्रं समापि सा ॥
तदद्य तामहं युक्त्या जिज्ञासिष्ये स्वयं निशि । इति संचिन्त्य राजा मे सोऽत्राहारमदापयत् ॥
ततो गत्वा गृहं तस्य भार्यायाः संनिधावहम्। अश्रुण्यसुखं पृष्टश्च तया तामेवमत्रवम् ॥
प्रिये न वाच्यं कस्यापि त्वया ऽणु वदामि ते । अस्य राज्ञो गुदे जाता दन्ता वआश्रिसंनिभ॥
तच भग्नोऽद्य जात्योऽपि क्षुरो मे कर्म कुर्वतः । एवं चात्र मंमेदानीं झुरमुट्येत्पदे पदे ॥
तन्नवं नवमानेष्ये कुतो नित्यमहं क्षुरम् । अतो रोदिमि नष्टा हि जीविकेयं गृहे मम ॥
इत्युक्ता सा मया भायों मतिमाधादुपैष्यतः । रात्रो राज्ञोऽस्य सुप्तस्य दन्ताङ्कतेक्षणे ॥
आ संसाराददृष्टं तदसत्यं न त्वबोधि सा । विदग्धा अपि वध्रयन्ते विटवर्णनया स्त्रियः ॥
अथैत्य तां निशि स्वैरं मद्यमुपभुज्यं सः। राजा श्रमादिवालीकं सुप्तवान्मद्वचः स्मरन् ॥
मद्यप्यथ तं सुप्तं मत्वा तस्य शनैः शनैः । हस्तं प्रसारयामास गुदे दन्तोपलब्धये ॥
गुदप्राप्ते च तत्पाणावुत्थाय सहसैवं सः । डाकिनी डाकिनीत्युक्त्वा त्रस्तो राजा ततो ययौ ॥
ततः प्रभृति सा तेन भीत्या त्यक्ता नृपेण मे । भार्या गृहीतसंतोषा मदेकायत्ततां गता ॥
एवं पूर्व नृपाख्या गृहिणी मोचिता मया । इति तां तापसीमुक्त्वा नापितः सोऽब्रवीत्पुनः॥
तदेतत्प्रज्ञया कार्यमार्ये युष्मन्मनीषितम् । यथा च क्रियते मातस्तदिदं वच्मि ते श्रुणु ॥
कोऽभ्यन्तःपुरवृद्धोऽत्र स्वीकार्यो यो ब्रवीत्यमुम्। जाया ते कदीगर्भा डाकिनीति नृपं रहः ॥
औरण्यकाया नह्यस्याः कश्चित्परिजनः स्खकः। सर्वः परो भेदसहो लोभात्कुर्वीत किं न यत् ॥
ततोऽस्मिन्राज्ञि साशी श्रवणान्निशि यत्नतः । हस्तपादादि कदलीगर्भाधाम्नि निधीयते ॥
तत्प्रभाते विलोक्यैव राजा सव्यमत्रेत्य तत् । वृद्धोक्तं कदलीगर्भ भीतस्तां त्यक्ष्यति स्वयम् ॥
एवं सपत्नीविरहद्देवी सुखसवाप्नुयात् । त्वां च सा बहु मन्येत लाभः कश्चिद्भवेच्च नः॥
इत्युक्ता तापसी तेन नापितेन तथेति सा । गत्वा राज्ञो महादेव्यै यथावस्तु न्यवेदयत् ॥
देवी च तत्तथा चक्रे सा तद्युक्त्या नृपोऽपि ताम् । प्रत्यहं वीक्ष्य कदलीगर्भ दुष्टेति तां जहौ ॥
तुष्टया च ततो देव्या तया गुप्तमदायि यत् । प्रव्राजिका तदुभुजे सा यथेष्टं सनापिता ॥
त्यक्ता च कदलीगर्भा सा तेन दृढवर्मणा । राज्ञाभिशापसंतप्ता निर्ययौ राजमन्दिरात् ॥
येनाजगाम तेनैवंः प्रययौ पितुराश्रमम् । पूर्वोप्तजातसिद्धार्थसाभिज्ञानेन सा पथा ॥
तत्र तामागतां दृष्ट्वा सोऽकस्मात्तत्पिता मुनिः। तस्या दुश्चरिताशी तस्थौ मङ्कणकः क्षणम् ॥
प्रणिधानाच तं कृत्स्नं तवृत्तान्तमवेत्य सः। आश्वास्य च स्वयं स्नेहात्तामादाय ययौ ततः ॥
एत्य तस्मै तदाचख्यौ स्वयं प्रहृय भूभृते । देव्या सपत्नीषेण कृतं कपटनाटकम् ॥
तत्काळे खयसभ्येत्य राजे तस्मै स नापितः । यथावृत्तं तदाचष्ट पुनरेवमुवाच च ॥
इत्थं विश्लेष्य कीगर्भ राशी मया प्रभो । अभिचारवशाद्युक्त्या देवीं संतोष्य रक्षिता ॥
तच्छुत्वा निश्चयं दृश्वा मुनीन्द्वचनस्य सः। जमाह कीगर्भ.संजातप्रत्ययो नृपः ॥