पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २ ।]
१०७
चतुर्दारिकालम्बुकः ५।

तच्छुत्वा साम्यवादीत्तं कुतोऽन्यस्पङ्कजं मम । एतत्कपालस्फोटस्य विद्यतेऽस्मत्प्रभोः सरः ॥ २४३

यत्रेदृशानि जायन्ते हेमाञ्जानि समन्ततः । तस्मात्तदेकं मद्भनें प्रीत्या पञ्च स दत्तवान् ॥ २४४

एवं तयोक्ते सोऽवादीत्तर्हि तन्मां सरोवरम् । नय यावत्स्वयं तस्माद्दास्ये कनकाम्बुजम् ॥ २४५

न शक्यमेतद्रक्षोभिर्दारुणैस्तद्धि रक्ष्यते । एवं निषिद्धोऽपि तया निर्बन्धं न स तं जहौ ॥ २४६

ततः कथंचिन्नीतश्व तया श्वश्वा ददर्श तम् । दूरासरोवरं दिव्यं तुङ्गवद्विकटकाश्रितम् ॥ २४७

छन्नं निरन्तरोद्दण्डदीप्तहेमसरोरुहैः। सततोन्मुखतापीतसंक्रान्तार्कप्रभैरिव ॥ २४८

गत्वैव तत्र यावच्च पद्मन्यवचिनोति सः । तावत्तद्रक्षिणो घोरा रुरुधुस्तं निशाचराः ॥ २४९

सशत्रः सोऽवधीच्चैनानन्यानन्ये पलाय्य च। गत्वा कपालस्फोटाय स्वामिने तद्यवेदयन् ॥ २५०

स तद्रव कुपितस्तत्र रक्षःपतिः स्वयम् । आगल्याशोकद्दत्तं तमपश्यशृण्ठिताम्बुजम् ॥ २५१

कथं भ्राता ममाशोकदत्तः सोऽयमिहागतः । इति प्रत्यभ्यजाना च तत्क्षणं तं सविस्मयः ॥ २५२

ततः शस्त्रं समुत्सृज्य षष्पाद्युतेक्षणः । धावित्वा पादयोः सद्यः पतित्वा च जगाद तूम् ॥ २५३

अहं विजयदत्ताख्यः सोदर्यः स तवानुजः । आवां द्विजवरस्योभौ गोविन्दस्वामिनः सुतौ ॥ २५४

इयचिरं च जातोऽहं दैवादीहद्भिशाचरः । चिताकपालदलनाकपालस्फोटनामकः ॥ २५५

त्वद्दर्शनादिदानीं च श्राह्मण्यं तत्स्मृतं मया । गतं च राक्षसत्वं मे मोहाच्छादितचेतनम् ॥ २५६

एवं विजयदत्तस्य वदतः परिरभ्य सः । यावत्क्षालयतीवाजं राक्षसीभवदूषितम् ॥ २५७

अशोकदत्तो बाष्पाम्बुपूरैस्तववातरत् । प्रज्ञप्तिकौशिको नाम विद्याधरगुरुर्दिवः ॥ २५८

स तौ द्वावप्युपेत्यैव भ्रातरौ गुरुरब्रवीत् । यूयं विद्याधराः सर्वे शापादेतां दशां गताः ॥ २५९

अधुना च स शापो वः सर्वेषां शन्तिमागतः । तद्भीत निजा विद्य। बन्धुसाधारणीरिमाः ॥ २६०

व्रजतं च निजं धाम स्वीकृतस्वजनौ युवाम् । इत्युक्त्वा दत्तविधोऽसौ तयोद्यमुद्ययौ गुरुः ॥ २६१

तौ च विद्याधरीभूतौ प्रयुद्धौ जग्मतुस्ततः । व्योम्ना तद्धिमवच्छूलं गृहीतकनकाम्बुजौ ॥ २६२

तत्र च शोकदत्तस्तां रक्षःपतिसुतां प्रियाम् । उपागात्साप्यभूत्क्षीणशपा विद्याधरी तदा ॥ २६३

तया च साकं सुदशा भ्रातरौ तावुभावपि । वाराणसीं प्रययतुः क्षणाद्गनगामिनौ ॥ २६४

तत्र चोपेत्य पितरौ विप्रयोगाग्नितापितौ । निरवापयतां सद्यो दर्शनामृतवर्षणौ ॥ २६५

अदेहभेदेऽप्याक्रान्तचित्रजन्मान्तरौ च तौ । न पित्रोरेव लोकस्याप्युरसवाय बभूवतुः ॥ २६६

चिराद्विजयदत्तश्च गाढमाश्लिष्यतः पितुः । भुज मध्यमिवात्यर्थं मनोरथमपूरयत् ॥ २६७

ततस्तत्रैव तद्रुवुः प्रतापमुकुटोऽपि सः । अशोकदत्तश्वशुरो राजा हर्षादुपाययौ ॥ २६८

तत्सत्कृतश्च तद्राजधानीं सोत्कस्थितप्रियाम् । अशोकदत्तः स्वजनैः साधु बद्धोत्सवामगात् ॥ २६९

ददौ च कनकाब्जानि राज्ञे तस्मै बहूनि सः। अभ्यर्थिताधिकप्राप्तिहृष्टः सोऽप्यभवन्नृपः ॥ २७०

ततो विजयदत्तं तं सर्वेष्वत्र स्थितेषु सः । पिता प्रपच्छ गोविन्दस्वामी साश्चर्यकौतुकः ॥ २७१

तदा श्मशाने यामिन्यां राक्षसत्वं गतस्य ते । अभवत्कीदृशो बस वृत्तान्तो वर्यतामिति ॥ २७२

ततो विजयदत्तस्तं बभाषे तत चापलात् । प्रस्फोटितचितादीप्तकपालोऽहं विधेर्वशात् ॥ २७३

मुखप्रविष्टया सद्यस्तद्वस/छटया तr । रक्षभूतस्त्वया तावडूछो मायाविमोहितः ॥ २७४

कपालस्फोट इत्येवं नाम कृत्वा हि राक्षसैः । ततोऽन्यैरहमाहूतस्तन्मध्ये मिळितोऽभवम् ॥ २७५

तैश्च नीतो निजस्यास्मि पार्श्व रक्षःपतेः क्रमात् । सोऽपि तत्रैव मां प्रीतः सेनापत्ये न्ययोजयत् ॥ २७६

ततः कदाचिद्भन्धर्वानभियोक्तुं मदेन सः । गतो रक्षःपतिस्तत्र सङ्गमे निहतोऽरिभिः ॥ २७७

तदैव प्रतिपन्नं च तद्ध्यैर्मम शासनम् । ततोऽहं रक्षसां राज्यमकार्षे तत्पुरे स्थितः ॥ २७८

तत्राकस्माच्च हेमाब्जहेतोः प्राप्तस्य दर्शनात् । अर्थस्याशोकदत्तस्य प्रशान्ता सा दश मम ॥ २७९

अनन्तरं यथास्माभिः शापमोक्षवशान्निजाः। विद्याः प्राप्तास्तथायं वः कृत्नमवेदयिष्यति ॥ २८०

एवं विजयदत्तेन तेन तत्र निवेदिते । अशोकदत्तः स तदा तदमूळावर्णयत् ॥ २८१