पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
३५
कठोपनिषत्

कत्वेन इतरस्र विरुद्धतया प्रतीयमाना अप्यासीनत्वदूरगन्तृत्वादिधर्मा जीबद्वारा तत्र सन्तीति भावः । कस्तमिति । हर्षाहर्षविरुद्धधर्ममध्यस्थं तं परमात्मप्रसादानुगृहीत मादृशजनादन्यः को वा ज्ञातेत्यर्थः ॥ २१॥

अशरीर ' शरीरेष्वनवस्थेष्ववस्थितम्। महान्तं विभुमात्मानं

मत्वा धीरो न शोचति ।। २२ ।।

अशरीरमिति । कर्मकृतशरीररहितं, अनवस्थेषु-अस्थिरेषु,नित्यत्वेन तत्र िस्थतं महान्तै विक्षु-महावैभवशालिनं आत्मानं मत्वा धीरो न शोचति ॥ २२ ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू५ खाम्।॥२३॥

ईदृशात्मप्राप्तयुपायं दर्शयति--नायमात्मेति । अत्र प्रवचनशब्देन भनयैव महीतुमुचितत्वादध्यापनरूपस्य प्रवचनस्य हेतुत्वाप्रसक्तश्च तथैव व्यासायैर्विवृत्त्वाच प्रवचनं मननम् । यमेवैध घृणुते तेन लभ्यः । एषः परमात्मा यं साधकं प्रार्थयते तेन लभ्यः प्रार्थनीयपुंसा लभ्य इत्यर्थः । तत्प्रार्थनीयत्वं च तत्प्रियतमस्यैव पुंसः । तत्प्रियतमत्वं च तत्प्रीतिमत एव । ततश्च भगवद्विषयिणी उपासकस्य प्रीति भगवत उपासके प्रीतिमुत्याद्य तत्प्राप्तिहेतुर्भवतीत्यर्थः । तस्यैष आत्मा विवृणुते तन् िस्वाम्--तस्य उपासकस्य एष आत्मिा परमात्मा स्वरूप प्रकाशयात स्वात्मान प्रयच्छतीत्यर्थः । वृणुते इति पाठेपि स एवार्थः ॥ २३ ॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो

वापि ५३ान मासुयात् ।

परमात्माप्तिहेतुभूतोपासनाङ्गतया कांश्चिद्धर्मानुपदिशति---नाविरतो दुश्चरिता दिति। परदारपरद्रव्यापहारादनिवृत्तः अनुपशान्तकामक्रोधवेगः नानाविधव्यापारविक्षिप्त तथाऽनवहितचितः अगृिहीतमनाः एनं– परमात्मानं ज्ञानेन नामुवादित्यर्थः । पुरुषार्थस्यैवामृतवदनमेिधस्य दर्शपूर्णमासप्रकरणे क्र-वङ्गतया 'नानृतं वदे दिति निषेधवत् पुरुषार्थस्यापि दुश्चरितबिरत्यादेरुपासनाङ्गतया विधानम् वस्तु पुरुषार्थमपि दुश्चरितनिषेधमतिलङ्ष्य परमात्मोपासनम