पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

इदं महोपनिषदं चतुर्वेदसमन्वितम् ।

सांख्ययोगकृतान्तेन पाञ्चरात्रानुशब्दितम् ।

इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।

ऋग्यजुस्सामभिर्जुष्ट अथवाङ्गिरसैस्तथा ।

भविष्यतेि प्रमाणं वै एतदेवानुशासनम् ।

ब्राह्मणैः क्षत्रियैवैश्यैः शूदैश्च कृतलक्षणैः ।

अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ।

सात्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः

अस्मात्प्रवक्ष्यते धर्मान्मनुस्वायंभुवस्तथा ।।

इत्यादिभिर्वचनैः बहुषु स्थलेषु पाञ्चरात्रप्रामाण्यं प्रतिष्ठापितवता शारीरकशास्त्रे तत्प्रामाण्यं निरक्रियत इत्यस्यसङ्गतत्वात् । नन्वच ---

एवं तत्त्वमिदं कृत्स्नं सांस्व्यानां वेिदितात्मनाम् ।

यदुक्तं यतिभिर्मुग्यैः कपिलादिभिरीश्वरैः ।

यस्मिन्नविभ्रमाः केचित् दृश्यन्ते मनुजर्षभ ।

गुणाश्च यस्मिन्बहवः दोषहानिश्च केवला ।

इति कपिलमतस्य भारते भ्रमादिदोषाभावप्रतिपादनात् ‘सर्वेषुच नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुरिति सांख्ययोगपाशुपतादीनामपि नारायणनिष्ठत्वप्रतिपादनान् 'तमेव शास्र कर्तारः प्रवदन्ति मनीषिणः 'इति तच्छास्र कर्तृणामपि नारायणप्रतिपादकत्वस्य प्रतिपादनात् 'सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपत तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभि' रिति स्वर्वेषामप्यात्म प्रमाणत्वप्रतिपादनाच 'सर्वे प्रमाणं हि तथा यथैतच्छास्त्रमुतम मेितिं पाञ्चरात्रदृष्टान्तेन इतरशास्राणामपि प्रामाण्यप्रतिपादनाच तत्पादे सांख्यपाशुपनाद्यागमानामपि प्रामाण्यं न नेिराक्रियत इति चेत्-सत्यम् । भ्रममिलिप्सादिराहित्यं शास्त्रकर्तृणां. परमतात्पर्य नारायण एवेति च समानम् । तथापि अबहुश्रुततया तद्वकृणां हृदयमजानन्तः