पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

ननु कथमस्य नित्यत्वम्, शरीरान्तर्वर्तिनःशरीरविनाशानुविनाशित्वावश्यंभावादित्यत आह - न हन्यत इति । स्पष्टोर्थः ॥ १८ ॥

हन्ता चेन्मन्यते हन्तुyहतश्चेन्मन्यते हृतम् ।

उभौ तौ न विजानीतो नायहन्ति न हन्यते ।। १९ ।।

तदेवोपपादयति-हन्ता चेदिति । हन्ताचेन्मन्यते हन्तुं-अहमेनं बधि(हनि)- ष्यामीतेि देहात्मदृष्टया मन्यते चेदित्यर्थः । हतथेन्मन्यते हतम्-छिन्नदेहावयव देहात्मदृष्टया आत्मानं हतोऽहमिति मन्यते चेदित्यर्थः । उभो तैौ न विजानीतः। आत्मस्वरुपमिति शेषः । नायं हन्ति । आरमानमिति शेषः । न हन्यते आत्मम्वरूपमिति शेष । न च वेदान्तवेद्यपरिशुद्धात्मभ्वरूपे कथं हननादिप्रसक्तितत पूर्वेकनिषेधाविति वाच्यम्। तस्यैव क्षेत्रीभूततया तत्प्रयुक्ततत्संभवादिति द्रष्टव्यम् ।

इमौ मन्त्रौ प्रस्तुत्य वियत्पादे चिन्तितम् । तत्र हि 'वायुश्चान्तरिक्षं चैतदमृतमिति वाटवन्तरिक्षयोर्नित्यत्वश्रवणपि 'आत्मन आकाशस्संभूत आकाशाद्वायुः ? इति तयोरुपतिश्रवणात् कविज्ञानेन सर्वविज्ञानसिद्धयर्थ सर्वस्य वस्तुनो ब्रह्मविकारत्वस्यावश्याश्रयणंयत्वाच्च यथोत्पत्तिरङ्गीक्रियते, एवं जावानां नित्यत्वश्रवणपि ‘तोयेन जीवाविससर्ज भृभ्यां ' 'प्रजापतिः प्रजा असृजतेति जीवानामपि सृष्टिश्रवणान् एकविज्ञानेन सर्वविज्ञानसिद्धार्थ जीवस्यापि सृष्टिरभ्युप गन्तव्येनि पूर्वपक्षे प्राप्त - नात्मा श्रतेर्नित्यत्वाच्च ताभ्यः' इति सूत्रेण सिद्धान्तितम् । आत्मा नोत्पद्यते * न जायते म्रियते वा विपश्चित ' 'ज्ञाज्ञों द्वाबजा' वित्युत्पति निषेधश्रुतेः । नाभ्य एव श्रुतिभ्यः नित्यवावगमाच । नचोत्पतिश्रुतिसर्वविज्ञान प्रतिज्ञाविरोधशङ्कय स्वरुपस्य नित्यत्वेऽपि ज्ञानसङ्कचविकासलक्षणान्यथाभाव रूपावस्थान्तरपतिसत्वेन उत्पत्तिश्रते: सर्वविज्ञानप्रतिज्ञायाश्चोपपत्त । उत्पत्ति निषेधश्रुतेश्च स्वमपान्यथाभावलक्षणोत्पल्यभावपरतया अविरोधात् । इयांस्तु विशेषः । चिदचिदीश्वराणां त्रयाणामपि अवस्थान्तरापात्तलक्षणेोत्पतिरूपो विकारोऽस्त्येव । तथाप्यचेतनानां स्वरुपान्यथाभावलक्षणा उत्पत्तिः । जीवानां तु सा नास्ति । अपितु हानसङ्कोचविकासलक्षणस्वभावान्यथाभावरूपा उत्पत्तिः । ईश्वरस्य तु तन्नियन्तृत्वाद्य वस्थासत्वेपि उक्तलक्षणानिष्टविकारद्रयाभावात् 'नित्यो नित्याना 'मिति परमात्मन