पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
२५
कठोपनिषत्

विपश्चिच्छब्दितपरिशुद्धस्वरूपस्य प्राप्तृरूपतोपपत्तिः । 'आत्मेन्द्रियमनोयुक्तं भोक्त त्याहुर्मनीषिणः, विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारभामोति तद्विष्णोः परमं पद'मिति मन्त्रप्रतिपाद्यस्यैव प्राप्तृरूपत्वात् । तथैव 'विशेषणाचेति सूत्रभाष्ये प्रतिपादितत्वात् । अत एव प्राप्यप्राप्त्रैकाधिकरण्यनिर्देशपरे गुहामन्त्रे छायातपावित्यत्र अज्ञत्ववाचिना छायाशब्देन निर्देशो दृष्टः । न तु विपश्चिच्छ ब्देन । अतः यथोक्त एवार्थः । अयं मन्त्रः व्यासायै: 'त्रयाणामिति सूत्रे विवृतः ।

  • धर्मः उपायः धर्मादन्यत्र –प्रसिद्धोपायविलक्षण इत्यर्थः । अधर्मः–धमेंतर

उपेयः । अधर्मादन्यत्र प्रसिद्धसाध्यविलक्षणं फलमित्यर्थः । अस्मादिति बुद्धिस्थ तत्साधको विवक्षितः । स एवोपेता । सहेि प्रसिद्धोपेतृ(साधक) विलक्षण साधकावस्थायामितरफलविरक्तत्वात्, फलदशायामाविर्भूतगुणाष्टकविशिष्टस्वरूपत्वाच। कृताकृतादिति धर्मादीनां विशेषणम् । कृताकृताद्धर्मादेर्विलक्षणं भूताच भव्याच धर्मादेर्विलक्षणं यदित्यर्थः । इत्येकां व्याख्यां कृत्वा तस्मिन्पक्षे तु कृताकृतात् भूताद्रव्याच धर्मादन्यत्र तादृशादधर्मादन्यत्र तादृशादमाश्चान्यत्र इत्यन्यत्रशब्दत्रयेणै वोपपत्तौ अन्यत्र भूताद्भव्याचेत्यन्यत्रशब्दवैयथ्र्य, उपायस्य कालत्रयपरिच्छिन्नतया तत्र कालत्रयपरिच्छिन्नवैलक्षण्यानन्वयं च पर्यालोच्य यद्वेत्यादिना अपरा व्याख्या कृता । तदुच्यते—यद्वा धर्मादधर्माचान्यत्र यदिति उपासनप्रश्नः । पुण्य पापरूपसाधनविलक्षणत्वादुपासनस्य । कृताकृतात् भूताच भव्याचान्यत्र यदिति कालापरिच्छिन्नमुपेयं पृष्टम् । उपेतुरपि चेतनस्य नित्यत्वात् प्राप्यान्तर्भावाच । तत एव तस्यापि तत्रेण प्रश्नः । तदन्तर्गतं च प्राप्तुः स्वरूपमिति हि वक्ष्यते । तत्र यत्तच्छब्दौ त्रितयपराविति भावः । इति ॥

नन्वस्मिन्नपि पक्षे प्रष्टव्यद्वयपरत्वाश्रयणमपि कृिष्टमेव । अन्यत्र धर्मादन्यत्रा धर्मादिति प्रक्रमस्थान्यत्रशब्दद्वयसामानाधिकरण्यवत् अन्यत्रास्मात्कृताकृतादन्यत्र भूतादित्युपरितनान्यत्रशब्दद्वयस्यापि सामानाधिकरण्यस्यैव प्रतीतेः । यदि तत्र धर्माधर्मविलक्षणं यच , कालत्रयविलक्षणं यचेति यशब्दद्वयमश्रेोप्यत तदा अन्यत्रशब्दयुगद्वयस्य स्वरसतः प्रतीतं सामानाधिकरण्यं पर्यंत्यक्ष्यत । अतः प्रक्रमरीत्यनुसारिप्रतीतसमानाधिकरण्यभ कारणाभावात् अन्यत्र । धर्मा