पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
कठोपनिषत्

नान्ना नचिकेत इति प्रसिद्धो भविता । विचित्रां सृङ्कां शब्दवतीं रलमालां स्वीकुर्वेित्यर्थः ।। १६ ।।

त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू।

ब्रह्मजज्ञे देवमीड्यं विदित्वा निचाय्येमा शान्तिमत्यन्त

मेति ॥ १७ ॥

पुनरपि कर्म प्रस्तौति-त्रिणाचिकेत इति । त्रिणाचिकेत : – 'अयं वाव यः पवते' इत्याद्यनुवाकन्नयाध्यायी । ित्रकर्मकृत्-यजनाध्ययनदानकृत्-पाकयज्ञहविज्ञ सोमयज्ञकृद्धा । त्रिभिः त्रिरनुष्ठितैरमिभिः । सन्धि-परमात्मोपासनेन संबन्धम् । एत्य-प्राप्य जन्मभृत्यू तरतीत्यर्थः। 'करोति तद्येन पुनर्न जायते' इत्यनेनैकाथ्र्यात् । एवमेव ह्ययं मन्त्रः 'त्रयाणामेव चैव'मिति सूत्रे व्यासायैर्विवृतः। त्रिभिरेत्य संधिमिति निर्दिष्टमङ्गिभूतं परमात्मोपासनमाह-ब्रह्मजज्ञमिति । अयं मन्त्रः 'विशेषणावेति सूत्रभाष्ये 'ब्रह्मजज्ञः-जीव । ब्रह्मणो जातत्वात् ज्ञत्वाच । तं देवमीड्यं विदित्वा । जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः' इति विवृत । देवशब्दस्य परमात्मवाचितया जीवपरयोचैक्यासंभवादत्रत्यदेवशब्दस्य परमात्मात्मकत्वमर्थ इति भाष्याभिप्रायः । चिाय-ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्य । इमां–“त्रिकर्म कृत्तरती'ति पूर्वमन्त्रनिर्दिष्टां संसाररूपानर्थशान्तिमेतीत्यर्थः ।। १७ ।।

त्रिणाचिकेतस्रयमेतद्विदित्वा य एवं विद्वाश्चिनुते नाचि-

केतम् । स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते

स्वर्गलोके ॥ १८ ॥

त्रिणाचिकेत इति । त्रिणाचिके.तः, उक्तोर्थः । त्रयमेतद्विदित्वा 'ब्रह्मजज्ञ देवमीद्धय'मिति मन्त्रनिर्दिष्ट ब्रह्मस्वरूपं, तदात्मकस्वात्मस्वरूपं, 'त्रिभिरेत्य संधेि मिति निर्दिष्टाप्तिस्वरूपं च । विदित्वा–गुरूपदेशेन शास्रती वा ज्ञात्वा । य एवं विद्वान् एतादृशार्थत्रयानुसंधानपूर्वकं नचिकेतममेिं यश्चिनुते सः मृत्युपाशान् रागद्वेषादिलक्षणान् । पुरतः- शरीरपातात्पूर्वमेव । प्रणोद्य-तिरस्कृत्य । जीव द्दशायामेव रागादिरहितस्सन्नित्यर्थः । शोकातिगो मोदते स्वर्गलोक इति पूर्वमेव व्याख्यातम् ॥ १८ ॥