पयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रागेण पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्तथोक्तैः । नवो नूतनो यौवनस्य तारुण्यस्योष्मौष्म्यं येषु तैस्तथोक्तैः पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः कामिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां कुर्वन्तीत्यर्थः ॥
सुगन्धिनिश्वासविकम्पितोत्पलं
मनोहरं कामरति1प्रवोधकम् ।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥
सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवत्यः सुगन्धिना सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं यस्मिंस्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबोधकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः ॥
अपगतमदरागा योषिदे2का प्रभाते
कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
व्रजति शयनवासाद्वासमन्यद्धसन्ती ॥११॥
अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता । पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निविडं सान्द्रं कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प
१ 'प्रबोधनम्'. २ 'एव'.३ 'कृतविनतकुचाग्रा'; 'कुचनिबिडकुचा
या'. ४ 'अन्यं हसन्ती'; 'अन्यद्वजन्ती'.