पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
ऋतुसंहारे

 वनानि वै1न्ध्यानि हरन्ति मानसं
  विभूषितान्युद्गत2पल्लवैर्दुमैः ॥ ८॥

 तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः । विचित्रनीलैर्हरिणीमुखैः क्षता खण्डितास्तैस्तथोक्तैस्तृणोत्करैरुद्गता निर्गताः पल्लवाः किसलयानि येषां तैस्तथोक्तैः । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसंबन्धीनि वनानि काननानि । 'गहनं काननं वनम्' इत्यमरः । मानसमन्तःकरणं हरन्तीत्यर्थः ।।

 विलोलनेत्रोत्पलशोभिताननै-
  र्मृगैः समन्तादुपजातसाध्वसैः।
 समाचिता सैक3तिनी वनस्थली
  समुत्सुकत्वं प्रकरोति चेतसः॥९॥

 विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पलान्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि वदनानि येषां तैस्तथोक्तैः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः ।उपजातसाध्वसैः संजातभयैर्मृगैर्हरिणैः । 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । समन्तादितस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंबन्धिनी वनस्थल्यकृत्रिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सुकत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः ॥

१. 'रम्याणि'. २. 'पल्लवद्रुमैः'. ३. 'शैवलिनी'.