________________
शिवाग्निकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः । १३३ शिवाद् दशांशमूर्तीनामङ्गानां हविषा हुतम् ।
पर्वसु द्विगुणं नित्याद्धोमतुल्योऽस्तु वा जपः ॥ १६३ ॥
ओं हौं शिवाय स्वाहेति स्ववदानत्रयं चरोः ।
अभिघार्य स्रुचा हुत्वा मूर्त्यङ्गानां सकृत् सकृत् ॥ १६४ ॥
आचामं प्रोक्षणीतोयैर्दत्त्वार्ध्यं चास्त्रमन्त्रतः ।
गन्धैः पुष्पैधूपदीपस्ताम्बूलेनापि तं यजेत् ॥ १६५ ॥ कृत्वाग्निं भस्म चालभ्य नाडीसन्धिं विसृज्य तु । बीजादिभिर्व्याहृतीभिर्मूर्त्याङ्गैश्च सकृत् सकृत् ॥ १६६ ॥
हुत्वाज्यमुद्धृत्यास्त्रेण मूर्त्याङ्गानि यथास्थिति । शिवे नियोज्य बहिस्थं शिवं चाग्नेर्ह्रदम्बुजे ॥ १६७ ।।
सन्निरुध्याथवा रक्षेत् प्रत्यहं विसृजेत् तु वा । ओं हौं हैं हूं हीं हां शिवमूर्तये नमः ।
इत्यमेः शिवमूर्ति तां सङ्ग्रह्य कुसुमाञ्जलौ ॥ १६८ ॥
ओं हौं , ओं हों , ओं हे , ओं हुं, ओं हिं शिवाय नमः ।
अनेन लिङ्गस्थशिवे योजयेद् वा हृदम्बुजे । प्रागेव नाडीसन्धानं सति लिङ्गे तु तच्छिवे ॥ १६९ ॥
अलिङ्गे स्वहृदम्भोजे शिवात् तन्नासिकाग्रतः ।
सन्धानमाचरेत् तद्वदूह्योद्वासनकल्पना ॥ १७ ॥
नैमित्तिकेषु कृत्येषु द्विजातिश्चेज्जयादिभिः ।
अमात्यनिष्कृतीश्चैव हुत्वा स्विष्टकृतं तथा ॥ १७१ ॥ ओं हां अग्नये ठठ ।ओं हां सोमाय ठठ। ओं हां अग्नीषोमाभ्यां ठठ ।
ओं हां अग्नये स्विष्टकृते ठठ।
मन्त्रैरेभिश्च जुहुयादेभिरेवाद्विजातिषु ।
आग्नये वा पुरो वाग्नेः कृत्वा मण्डलकद्वयम् ॥ १७२ ॥
बलिं क्षिपेन्नमोन्तैः स्वैस्तारहृत्पूर्वनामभिः । चरुशेषेण गन्धाद्यैर्दिग्विदिक्क्रमयोगतः ॥ १७३ ॥ १. 'स्तु' ख. पाठः. २. 'ति:' म. ग. पाठः,