पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ [सामान्यपाद कुशेषूपविष्टो निबद्धाञ्जाले सन् गुरोराज्ञया तूत्तराशामुखः स्यात् । गुरुः प्राङ्मुखस्तूपविश्यायेतोयैः शिरः प्रोक्षयेच्चास्त्रतस्तस्य दर्भैः ॥ ५५ ॥ शिरस्यस्य भूत्या त्रिराराध्य देहं ततः शोषणाद्यैस्त्रिधा शोधयित्वा । पुनर्भूतशुद्धिं च शिष्यस्य देहे स्वयं चित्तवृत्त्या समापाद्य पात्रे ॥ ५६ ॥ विशेषार्घ्यमिष्ट्वाथं तत्कूर्चतोयैः पुनः प्रोक्ष्य तस्मिन् न्यसेन्मातृकार्णान् । ततः साध्यमन्त्रं च तस्य।ङ्गमन्त्रान् न्यसेन्मूर्तिमत्तां समापाद्य तस्मिन् ॥ १७ ॥ पुनश्चावकुण्ठ्याथ तं वर्मणाथो स्वमूलाङ्गयुक्तं नवं शुक्लवस्त्रम् । समादाय नेत्रेऽस्य बद्ध्वाथ् बिम्बे पुरैवेष्टदेवे समभ्यर्च्य तस्मिन् ॥ १८ ॥ ततः क्षेपयेत् तस्य पुष्पाञ्जलिं तं स यस्यां तु मूर्तौ पतेद् वाङ्गमन्त्रे ! तंदुक्तं हि नाम्नास्य मन्त्रं च तस्मै प्रदद्यात् त्रिवारं पठेत् सोऽपि मन्त्रम् || ततस्तारपीठे तु दर्भासनस्थ: समालोक्य शिष्यं तु मूलाङ्गजापी । स्वहस्तं शिरस्यस्य विन्यस्य मन्त्रं निधायाङ्गमूलैः स्पृशेत् सर्वमङ्गम् || १० || ततो दर्भमूलं तु शिष्यस्य हस्ते प्रदायोपविष्टः पुराग्नेस्तदत्रम् । स्वजङ्घान्तरस्थं निपीड्यात्मनोऽस्मिन् क्रमाज्जीवनाड्योश्च सन्धिं विदध्यात् || इडापिङ्गलाख्यस्वनाड्योः स्वनस्तः सुषुम्नापथा (चा च्चा)पि मूर्ध्न: प्रसूतम् | त्रिधा यत्तु तेजस्तथा शिष्यदेहेऽप्यविच्छिन्नसन्धिं तु जीवं विभाव्यात् ||६२ ॥ समानीय शिष्यात्मनोरेकभावं घृतेन त्रिवारं तु मूलेन हुत्वा । तथा शिष्यजीवं तथात्मविष्टं पुनर्निर्गतं चास्य देहं प्रविष्टम् ॥ ६३ || भवेदात्मजन्मैवमुद्भाव्य शिष्यः स्फुटं शक्तिपातात् स्वतुल्यः शिवः स्यात् । हरित्कीटकं यन्मृदावेष्य नादं विकुर्वन् पडङ्घ्रिः स्वजातिं करोति ॥ ६४ ॥ तथा प्राकृतं शिष्यमाचार्यवर्यः क्रियादीक्षया मन्त्रमूर्तिं करोति । ततोऽष्टौ शतं चापि मूलेन हुत्वा दशांशेन चाङ्गैर्घृतेनैव पञ्च ॥ १५ ॥ द्विजश्वेज्जयादिं जुहोतीह पूर्णां समूलाङ्गमन्त्रैः समस्तैर्जुहोतु । समित्क्षीरला जैश्च सिद्धार्थगव्यैस्तिलैः सर्पिषाङ्गैश्च मूलेन हुत्वा ॥ ६६ ॥ 'ब' ग. पाठः, २. 'य' २. 'व्यम् ॥' ख. पाउ:- ५. 'तु', ६, 'शाङ्गेन' ग पाठ.