पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ तत्रेष्टां देवतामिष्टा स्वागमाचार्यदर्शनात् । तत्तन्मन्त्रं जपेद्धोमवैश्वदेवबलिक्रियाः ॥ १७७ ॥ समाप्यातिथिपोष्यादीन् भोजयित्वा स्वशक्तितः । स्वयं भुञ्जीत पुत्राद्यैः सहितोऽन्नमकुत्सयन् || १७८ ॥ भुक्त्वान्नगन्धलेपाद्यमपनीय च शोधयेत् । दन्तानथ समाचम्य मुखवासं भजेदपि ॥ १७९ । ततो विद्याविनोदाद्यैर्दिनशेषं सुखं नयेत् । अथार्धास्तमिते भानौ सन्ध्यामासाद्य पश्चिमाम् ॥ १८० ।। उपासीत यथापूर्वं दन्तधावनवर्जितम् । स्नात्वाचम्याथ सम्प्रोक्ष्य पीत्वाम्भोऽग्निश्चमन्त्रतः ॥ १८१ ॥ ऊर्ध्वं त्वापस्तथा क्षिप्त्वा गायत्रीं शक्तितो जपेत् । इमंमेवरुणाद्याभिरुपस्थायाथ पूर्ववत् ॥ १२ ॥ गन्धाद्यैर्देवतामिष्टा यथापूर्वं स्वशक्तितः । जपित्वार्थ नमस्कृत्य वैश्वदेवबलिकिया. ॥ १८३ ॥ समाप्यांतिथिभृत्याद्यैः सह भुञ्जीत चेद् गृही । शयीत शयने शुद्धे स्वास्तीर्णे शुक्लवाससा ॥ १८४ ॥ गोविप्रदेववह्निनां नोपरिष्टान्न सङ्कटे । नानुवंशं शयीतासौ नोत्तरापरदिक्शिराः ॥ १८५ || न नग्नो नार्द्रपाण्यङ्घ्रिर्न तैलाक्तो न चाशुचिः । वितानदीपकलशैः शोभिते विभवे सति ॥ १८६ ।। मन्त्रसन्नद्धदेहस्तु रक्षागन्धाद्यलङ्कृतः । स्वपत्नी साधुशीलाढ्यां स्वनुरक्तां स्वलङ्कृताम् ॥ १८७ ॥ अपर्वस्वभिगच्छेत् तु गृही सन्तानकारणात् । सन्ध्योपास्तिप्रसङ्गादिति विधिविहितं नैत्यकं कर्मचक्रं श्रौतस्मार्तेषु तन्त्रोदितमपि कथितं वर्णिनां यत् समासात् 1 ग. पाठः. [सामान्यपाद: