पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नित्यकर्म विधिः] पूर्वार्धे नवमः पटलः । तत्काराद्यक्षराणां तु देवताः क्रमशो मताः । पुरैव सामान्यतयात्र तारकः प्रकाशितो व्याहृतिसप्तकक्रमात् । यथार्थसङ्गो विधिवन्निरुच्यते सभूर्भुवः स्वर्महसां जनस्तपः ॥ ११५ ।। सदेव सत्यं सवितुर्हि मण्डले स्थितं तु तेजः खलु भूर्हि सत्तया । भुवश्च तत्कारणकार्यसत्तया सुवो जगत्स्वीरितमात्मवत्तया || ११६ ।। महः प्रकाशात्मतया महत्तया जनस्तथा सर्वजनान्तरात्मता । तमोहरं यत् तपतीत्यतस्तपः परं हि तत् सत्यमनन्तमुच्यते ॥ ११७ ॥ प्रणवेनाथ संबन्धो व्याहृतीनामिहोच्यते ।। ११८ ॥ भूः स्यादकारस्तु भुवो ह्युकारः स्वः स्यान्मकारोऽपि महोऽथ बिन्दुः । नादो जनः स्यात् तप एव शक्तिर्नादान्तसंज्ञं पदमत्र सत्यम् ॥ ११९ ॥ अथार्थप्रतिपत्त्यर्थं सावित्र्यास्तन्निरुच्यते । तदिति स्याद् द्वितीयैकवचनं ब्रह्मवाचकम् ।। १२० ।। सूर्यमण्डलगं तेजस्तद् ब्रह्म परमं हि यत् । षष्ठचन्तः सवितुःशब्दो धातोः प्रसववाचकात् ॥ १२१ ।। ❤ वृष्टेश्च प्राणिजातानां साक्षात् प्रसवितुर्विभोः | वरेण्यं चरणीयत्वाच्चतुर्वर्गफलार्थिभिः ॥ १२२ ।। प्रथमाष्टाक्षरस्यास्य व्याप्या भूर्व्याहृतिः स्मृता । भक्तिगम्यं भवेद् भर्गः पापभञ्जनतोऽपि वा ॥ १२३ ॥ देवस्येति च षष्ठयन्तं वृष्ट्यादेर्दातुरीशितुः । दीव्यमानस्य वा दीप्त्या स्वप्रकाशतयाथवा ॥ १२४ तद् धीमहि ध्यैचिन्तायांधातोः सिद्धं हि यत् पदम् । तेजः सूर्यात्मकं ज्ञेयं चिन्तयामः शिवात्मकम् ॥ १२५ ॥ द्वितीयाष्टाक्षरस्यास्य व्याप्या स्याद् व्याहृतिर्भुवः | धियो बुद्धीर्मनोरस्य च्छान्दसत्वमुदीरितम् || १२६ ।। 'य' ग. पाठ: २. 'संयोगनिधिर्निग' ३. 'बर्तया' ख. पाठ: