ईशानशिवगुरुदेवपद्धतौ द्वारे प्राक्पश्चिमे स्यातां वेदर्तुवसुकोष्ठकैः । त्रिसप्तकोष्ठैः कोणाः स्युस्तत्पादाश्चर्तुकोष्ठकैः ॥ १५२ ॥ त्रिपुरामण्डलाधिकारः । क्षेत्रे विंशतिधा द्विधा पुनरिदं निर्भिद्य वेदाश्रकं कोष्ठानां खलु षट्शतं दशशतं चात्रास्ति तन्मध्यतः । षट्ट्त्रिंशत्कचतुष्टयेन तु भवेल्लिङ्गं सपीठं महत् तत्रिंशद्वयनागषोडशमितैः कोष्ठैस्तु पीठादिकम् ॥ १५३ ।। पङ्क्तिं तत्परितो विसृज्य तु बहिःपङ्क्तया च पीठं भवेत् तद्बाह्ये मुनिपङ्क्तित तत्त्वगणनाकोष्ठैः पृथक् पूर्ववत् । पद्मानि क्रमशोऽष्टदिक्षु विलिखोलिङ्गे च तत्पार्श्वयोः षड्भिर्विंशतिकोष्ठकैश्च परितः पङ्क्तिद्वयाद्दू वीथिकाः ॥ १५४ ॥ ईशानादिब्रह्मवर्णानि चास्मिन् लिङ्गानि स्युः शिष्टलिङ्गानि पद्मात् । व्यस्तैर्वर्णैः शुक्करक्ताच्छरक्तैः प्रागाद्यब्जे संलिखेदुक्तमार्गान् ॥ १५५ ॥ संयुक्तान् क्रमशः प्रदक्षिणमथो वीथ्यां तु शङ्खाल्लिखे- च्छुक्लाभान् यदि मण्डलं भवति तद्यच्छङ्खमालाह्वयम् । हंसा श्वेदिह हंसमालमृतुभिः स्यादष्टदिक्संस्थितै- र्द्वाराणि त्रिशरांश्च कोष्ठविहिताः शोभाश्च पङ्क्त्तित्रये ॥ १५६ ।। कोणाः स्युः सप्तविंशत्या कोष्ठानां तत्रिपङ्क्तिषु । कृष्णेनाच्छाद्य तत्रापि स्वस्तिकान्जादिकं लिखेत् ॥ १५७ ॥ लिङ्गोदरशङ्खमालाद्यधिकारः । चक्राब्जादितराणि शक्तिशिवयोः पूजासु दीक्षादिके शस्तान्यत्र पवित्रकादिषु तथा सस्वस्तिलिङ्गान्यपि । चक्राब्जान्यपि भद्रकाणि सवितुर्विष्णोश्च लक्ष्म्या विधेः शक्तीनां त्रिपुराख्यशङ्खकलशा मायाम्बुजं चोदितम् ॥ १५८ ॥ यथोदितस्तु शक्तिनां तथेन्द्रस्मरभोगिनाम् । विघ्नेशानलषडङ्क्राः पूज्याः स्युः स्वस्तिकेष्विह ॥ १५९ ॥ [सामान्यपादः
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९९
दिखावट