दलभेदलक्षणम् ] पूर्वार्धे षष्टः पटलः । ५९ अरमध्यस्थितोऽराग्रं किञ्चित् त्यक्त्वाब्जपत्रवत् । अरसन्धेर्भ्रमाच्चाग्रभ्रमादब्जदलारकाः ॥ ११७ ॥ शान्ताग्रमूलाः पृथवस्तु मध्ये कार्यास्तृतीयांशतयारसन्धैः । अन्तः प्रविष्टास्तु यवोदरांख्याः सिध्यन्ति ते स्युः क्रमशः शिताग्राः ॥११८ ॥ त्रिधा विभज्यारक्षेत्रं द्वितीयप्रथमांशयोः । मध्ये स्थित्वा परिभ्रम्य तृतीयांशे दलाग्रवत् ॥ ११९ ॥ अर्धचन्द्रामरेखाभ्यां पत्राग्रं च समालिखेत् । इत्थमश्वत्थपत्राभास्तत्राराः संभवन्ति हि ॥ १२० ॥ स्थित्वारसन्धेरथ मध्यमांशे तिर्यग्भ्रमाच्चोभयतोऽरकार्धात् । रेखाद्वयान्तैः कृशमध्यकाः स्युः पिपीलिकाक्रोडेसमाह्रयाराः ॥ १२१ ॥ अरसन्ध्यन्तरा पुष्पैर्विचित्रैरभिर्भूष्य तु । बिम्बबाह्येऽथवा लिप्ते पुष्पालीभिर्विभूषयेत् ॥ १२२ ॥ उक्तं तु चक्राम्बुजमेकनाभं प्रियं शिवार्याहरिभास्कराणाम् । अन्यानि च स्युर्नवनाभकान्तान्यूह्यानि चक्राम्बुजमण्डलानि ॥ १२३ ॥ चक्राब्जाधिकारः । कर्णिकार्धप्रमाणेन प्राक्स्थसूत्रभ्रमक्रमात् । तद्वेखापार्श्वयोगेन मत्स्यद्वादशकं भवेत् ॥ १२४ ॥ सूत्रेषु तेष्वापतितैर्यथावत् सन्धिस्थसूत्रैर्दिनकृच्छताब्जम् । अष्टच्छदाब्जस्य समप्रभेदात् स्यादम्बुजं षोडशपत्रशोभम् ।। १२५ ।। केसरव्योमरेखान्तसूत्रात् तत्केसराग्रगात् । मत्स्यवल्लाञ्छयित्वा स्यात् पञ्चपत्रं तु पङ्कजम् ॥ १२६ ।। कर्णिकादलसन्धिभ्यां प्राग्वत् षट्पत्रसिद्धये । व्योमरेखाकर्णिकाभ्यां दलाग्रस्थं तु सप्तके ॥ ११७ ।। दलसन्धिकर्णिकाभ्यां दलसन्धौ न्यस्य मत्स्यचिह्नेन । नवदलकं स्यात् सूत्रैः पञ्चभिरास्फाल्य पङ्क्तिपत्रं स्यात् ।। १२८ ।। १. 'ये तृती' ग. पाठः, २. 'त:', ३.
- 'घ', ६. 'पि' ग. पाठः ७. 'इ' ख. पाठ:.
'ना' । ४. 'कास्या पि' ख. पाठ: ८. 'ह्य', ९. 'स्थस्तु सं' ग. पांड: