पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वस्तिकसर्वतोभद्राणि] पूर्वार्धे षष्ठः पटलः । नाभेः समीपे प्रथमं तु कोष्ठं वक्रायतं द्वेऽथ पुनर्विलुम्पेत् । तहक्षिणावर्तचतुष्पथाङ्कं स्यात् स्वस्तिकं चान्तरवीथियुक्तस् ॥ ९४ ॥ श्यामपीतासितारक्तैर्मार्गानाभूषयेत् क्रमात् । खण्डवीथीस्तु शुक्लेन लिङ्गादन्येन भद्रके ॥ ९५ ॥ पञ्चब्रह्ममण्डलगौरीतिलकाधिकारः । क्षेत्रे तथाष्टादशधा विभक्ते कोष्ठानि चास्मिन् त्रिशतं च वेदैः । विंशत्यपि स्यात् खलु तत्त्वसंख्यैर्मध्ये सरोजं विलिखेत् पुरोवत् ॥ ९६ ॥ अष्टाशास्वपि षट् त्रिंशत्कोष्ठैः स्युः स्वस्तिकान्यपि । एकं त्रीणि ततः पञ्च कोष्ठलोपक्रमः स्मृतः ॥ ९७ ।। एतत् खलु स्वस्तिक मण्डलाब्जं क्षेत्रेऽथवा द्वादशभागितेऽस्मिन् । मध्येऽम्बुजं षोडश कोष्ठकैः स्यात् स्युः स्वस्तिकान्यष्टदिशासु तद्वत् ॥ १८ ॥ स्वस्तिकान्यपि पद्मं च प्राग्वदापूर्य वर्णकैः । स्वस्त्यर्थं स्वस्तिकं शस्तं सर्वदेवाभिनन्दनम् ॥ ९९ ।। स्वस्तिकाब्जद्वयाधिकारः । क्षेत्रे तथाष्टादशभागिकेऽस्मिन् तन्मध्यगः स्वस्तिकनाभिमादौ । सङ्कल्प्य लुम्पेत् तु चतुष्पथाभं समन्ततः कोष्ठकपञ्चकानि ॥ १०० ॥ ' कोष्ठमात्रायता रेखाः कुटिलाः स्वस्तिकाकृतौ । परस्परपयोधिन्यः स्थाप्याः स्युः शेषलोपतः ॥ १०१ ॥ पञ्चाशदस्मिन् खलु सप्तकं च स्यात् स्वस्तिकानां सह चार्कभद्रैः । मध्ये द्विपञ्चाशदपि द्वयं च स्यात् सर्वतोभद्र चतुष्पथानाम् ।। १०२ ॥ कोणेषु चैककोष्ठानि शिष्टान्याभूषयेत् सितैः । नीलपीतारुणश्याभैर्भद्राण्यपि चतुष्पथान् || १०३ || एताद्धि सर्वतोभद्रस्वस्तिकं नाम मण्डलम् । सर्वस्वस्तिकमित्येते प्राहुर्यच्छिवयोः प्रियम् ॥ १०४ ॥ १. 'हि' म. पाठ:. I