पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पावताकान्तप्रासादाधिकार: ] पूवार्ध षष्ठः पटलः । द्वात्रिंशदशे चतुरश्रकेऽस्मिन् सहस्रकं सङ्कृतिसंख्यकं च । कोष्ठानि तन्मध्यगतत्त्वसंख्यैः कोष्ठैः सरोजं तु लिखेत् पुरोवत् ॥ ७१ ।। तद्बाह्यपङ्कया पीठं स्यात् तद्बाह्ये सप्तपङ्किभिः । लिङ्गाष्टकं तु विलिखेद् दिक्सूत्रोभयपार्श्वयोः।। ७२ ॥ ऋतुवेदाक्षिवेदर्तुकोष्ठैः स्यात् तिर्यगायतैः । पीठं सकण्ठं ब्रह्मादिजलपादान्तकं शुभम् ॥ ७३ ॥ पीठोपरिष्टात् खलु मध्यपङ्कयोर्युग्मस्थतत्कोष्ठचतुष्टयेन । लिङ्गं भवेत् तद्द्भुतमध्यसूत्रान्मध्यान्तसंवर्तितमस्तकं वा ॥ ७४ ॥ अन्तर्मुखानि लिङ्गानि बुभुक्षूणां समालिखेत् । विपरीतं मुमुक्षूणामन्तः पठिानि कारयेत् || ७५ || तत्कण्ठपीठोभयपार्श्वसंस्थे भद्रे चतुष्कोष्ठवशाद् भवेताम् । लिंङ्गान्तरालेष्वपि पञ्चविंशैः कोष्ठैस्तु कोणेषु लता विधेयाः ॥ ७६ ॥ गोमूत्रिकावत् संस्पृष्टा रेखास्तत्कोष्ठगा यथा । तथान्यरेखालोपेन लताः स्युर्विदिगायताः ॥ ७७ ॥ अश्रयन्तरेषु वल्लीनां पत्राण्यप्यथवा लिखेत् । वल्ल्यादौ सक्तमूलानि कुटिलाग्रादिकान्यपि ॥ ७८ ॥ तद्वाह्ये पङ्क्तियुग्मेन वीथीं प्राग्वत् तु मार्जयेत् । वाथीं तथा कल्पलताविशेषैराभूष्य तद्बाह्यवृतित्रयेऽपि । कोष्टानि वेदर्तुवसुसंख्यं द्वारार्थमन्तः प्रभृतीह लुम्पेत् ॥ ७९ ॥ शोभोपशोभेऽपि स्यातां द्विचतुष्षड्विलोपतः । त्रिःसप्तकोष्ठानि पृथक् कोणे कोणे तु मार्जयेत् ।। ८० ॥ पद्मादिकं भद्रकवत् तु सर्वमाभूषयेत् पञ्चविषैस्तु चूर्णैः । लिङ्गाष्टकं पञ्चमुखोक्तवर्णैरिच्छानुरूपं परिपूरयेद् वा ॥ ८१ ॥ इतीदं पार्वतीकान्तमुक्तं प्रासादमण्डलम् । अष्टलिङ्गलतापद्मवीथीप्राकारमण्डितम् ॥ ८२ ॥ पार्वतीकान्तप्रासादाधिकारः । १. 'पट्टान्त' ग. पाठः.. २. 'पा', ३. 'कू', “पि' ग. पाठः, ४. 'ता' ख. पाठ: ५.