एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
४० ईशानशिवगुरुदेवपद्धतौ
देवताः सप्त शक्राजमित्रार्यमधराश्रियः ।
यमश्च करणानां स्युः पूज्यास्तत्करणेषु ते ॥ ३७ ।।
एवं हि मातृकावर्णविवृतिः संप्रकीर्तिता ।
गौतमीये यथा प्रोक्तं मन्त्रव्याकरणेषु च ॥ ३८ ॥ प्रपञ्चसारे च यथा यथोदग्गार्यभाषितम् । मातृकावर्णविततिर्विश्वमेतदिति स्फुटम् ॥ ३९॥
विन्दोरग्रे रवोऽभूदथ रवजनिताः षोडशादौ स्वराः स्युः ___ काद्यर्णाः पञ्च वर्गास्त्वथ खलु यमुखा धातुभिः पञ्चभूतैः ।
तन्मात्राभिस्तथाक्षैः प्रकृतिरथ गुणैर्विश्वरूपा नसंज्ञा शक्तिर्वागीश्वरीयं ननु जगदखिलं यत् प्रपञ्चाभिधेयम् ॥ ४० ॥
इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे
मन्त्रलिङ्गादिकं नाम चतुर्थः पटलः। अथ पञ्चमः पटलः।
अथ मन्त्रजपार्चनाहुताद्यैर्विविधानामपि कर्मणां तु युक्तया ।
पृथगत्र हिताय साधकानां कथयिष्ये निखिलेन साधनाद्यम् ॥ १॥
कथिताः खलु तत्त्वसागरादौ विधयः पल्लवयोगरोधनाद्याः ।
हरितश्च सदेशकालयुक्त्या विविधद्रव्यदिनासनादिकुण्डैः ॥ २ ॥
अपि पल्लवयोगरोधनानि ग्रथनं संपुटकं विदर्भणं च । इति कर्मसु योजनं हि षोढा मनुवर्णैः सह साधकार्णयुक्त्या ॥३॥
मनुरन्तनिविष्टसाधकाख्यः कथितः पल्लवमादितस्तु योगः ।
उभयत्र मनोस्तु नामरौधौ प्रथनेऽर्णान्तरितं द्वयोः क्रमेण ॥ ४ ॥ उभयत्र तु साधकस्य मन्त्रो विनिविष्टो यदि संपुटं तदाहुः । मनुवर्णयुगेन साधकार्णं यदि चैकं क्रमशो विदर्भणं स्यात् ॥ ५ ॥ 1. 'म', २. 'च' ग. पाठ..