पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

· ईशान शिवगुरुदेवपद्धतौ प्रियफलकटिरम्या श्रीप्रिया रात्रिरन्या खगकुलकटकस्त्रीपात्रगर्भाणसंज्ञो । अभिहितलिपिवर्णानश्विनाद्येषु भेषु स्वरपरिणतियुग्मं पौष्णभे स्यान्नियोज्यम् ॥ ७१ ॥ ळकारश्च । कुरुवृषदघिसंख्याः शोभनास्तारकाः स्यु- र्भयमृतिगद्दुःखं गोमिथोऽसंख्यभैः स्यात् । कृतमिह खलु यत् स्यान्नाम मातापितृभ्यां जननभँमपि यत् स्यात् तद्द्वस्यानुकूलम् || ७२ ॥ फलगुरुरुरुशाणाः शर्मशर्वास्त्वजाद्या निगदितलिपिवर्णा राशयः शादयः स्याम् । जननभनिजनाम्नस्त्वादिवर्णाभियोगा- दभिमतमनुभेनाप्यादिवर्णेन शोध्यम् || ७३ || शुद्धायामवनौ सगोमयजलैरालिप्य तत्रालिखे- च्चक्रं षोडशकोष्ठकं तु परितः पङ्कचैकया राशयः । विघ्नक्षेत्रपवास्तुवेशविधयः कोष्ठेषु मध्ये स्थितां- स्तानिध्वा लिपिवर्णराशिघटनां मन्त्रात्मनाम्नोर्नयेत् || ७४ ॥ एको वाप्यथ पञ्चमोऽपि नवमो राशेः स्वकाद् बान्धवो राशिः स्याद् दशमद्वितीयसहितः षष्ठो भवेत् सेवकः । रुद्राभिस्वरसंख्यया यदि मतस्तन्त्रेष्वयं पोषकः स्याद् यो द्वादशमोऽष्टमः श्रुतिमितो मन्त्रः स्मृतो घातकः ॥ ७५ ॥ यो बन्धुर्भवति मनुः स रक्षतीमं सर्वार्थानपि वितनोति सेवकाख्यः । पुष्टि श्रीविभवयशांसि पोषकात्मा प्राणार्थानपि च निहन्ति घातकाख्यः ॥ , १. 'श्री', २. 'ख्या', ३. 'द', ४. 'सन्ध्यात्' ख. पाठः, ५. 'ब', 'काः स्युः प्रा' ख. पाट: ग. पाठा, [सामान्यपादः