पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षोभणीन्यासः ] पूर्वार्धे द्वितीयः पटलः । अजपा तु शिखा ज्ञेया वर्मैव कवचं स्मृतम् || ७४ ॥ तार एव तु नेत्राणि हरीशार्णाविहास्त्रकम् । कर्णस्तु हरिबीजं स्याद् विषमीशाक्षरं विदुः ॥ ७५ ॥ ध्येया स्यादभयाक्षसूत्रंशुकधृग् या पुस्तकं बिभ्रती देवी पाण्डुरपुण्डरीकपटलखच्छेन्दुकुन्दद्युतिः । हृद्याङ्गी मणिकुण्डला त्रिनयना कोटीरभारोज्ज्वला सार्धेन्दुः सितमाल्यगन्धवसना ब्राह्मी प्रपञ्चेश्वरी ॥ ७६ ॥ प्रपञ्चयागन्यासः । शक्त्याद्यैर्वा लिपेर्वर्णैः शक्तिः श्रीपूर्वकैस्तु वा । शक्तिः श्रीमन्मथाद्यैर्वा मोमानङ्गादिकैस्तु वा ॥ ७७ ॥ न्यासाः समृद्धिकास्त्वृद्ध्यै मुनिरेषां प्रजापतिः । छन्द॑स्तु दैवी गायत्री मोमानङ्गास्तु देवताः ॥ ७८ ।। स्वादिबीजैर्यथालिङ्गं षडङ्गानि भवन्ति हि । उमादिदेवताः : स्मृत्वा न्यासे ध्येया सरस्वती ॥ ७९ ॥ मन्दारदाम कलितेन्दुजटाकिरीटा सिन्दूररोचिरभिरामवपुस्त्रिनेत्रा । कुन्दावदातवसनाङ्कुशपाशविद्या- सन्दोहपङ्कजकरावतु भारती वः ॥ ८० ॥ समृद्धिन्यासः । कैलासनस्थो लकुली वामाक्षार्धशशाङ्कवान् । लिप्यर्णोभयगो न्यस्तः क्षोभणीन्यास ईरितः ॥ ८१ ॥ कामारूढस्तु लंकुली प्राग्वद् दीर्घस्वरैर्युतः । यथालिङ्गं षडङ्गानि छन्दो गायत्रमेव हि ॥ ८२ ॥ वामदेवो मुनिः कामो दैवतं चाक्षरेश्वरी । १. 'न्दो देवी च गा', १. 'रजाव', ३. 'का' ग. पाठः डास्तु' ख. पाठ:. D ४. 'मरू-