सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ चलान गेहे पूज्यानि स्थिराण्येवोत्तमानि हि । तान्यालये प्रतिष्ठाप्य स्थिरलिङ्गानि पूजयेत् ॥ ३१ ॥ रत्खलिङ्गाधिकारः । रामाङ्गलादितो लोहं लिङ्गमा षोडशाङ्गुलात् । चललिङ्गं स्मृतं तस्मात् स्थिराण्यूर्ध्वं भवन्ति हि ॥ ३२ ॥ [क्रियापाद: अष्टाङ्गुलं समारभ्य चाष्टाङ्गुलविवर्धनात् । लौहानि नव लिङ्गानि त्रिहस्तान्तानि कल्पयेत् ॥ ३३ ॥ तथाष्टाङ्गुलमारभ्य द्विद्वयङ्गुलविवर्धनात् । त्रिहस्तान्तानि लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥ ३४ ॥ लौहालङ्गानि । षोडशाङ्गुलमारभ्य दारुलिङ्गान्यनुक्रमात् । षोडशाङ्गुलवृद्ध्या स्युः' षड्ढस्तान्तानि वै नव ॥ ३५ ॥ षोडशाङ्गुलमारभ्य चतुरङ्गुलवर्धनात् । दारवाणि त्रयस्त्रिंशल्लिङ्गान्या रसहस्ततः || ३६ ॥ यस्य यस्मिन् भवेदास्था विभूतिर्यस्य यादृशी । लिङ्गं तदनुसारेण सततं तत् समाश्रयेत् || ३७ || इति मिश्रलिङ्गमणिलिङ्गवि(धान ? घौ कन) कादिलोहमयलिङ्गविधिः । इह दारुलिङ्गविधिरप्युदितः शिवतन्त्रदर्शन विनिश्चयतः ॥ ३८ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे कियापादे मिश्रलिङ्गरनीक विधिपटलश्चत्वारिंशः - अथैकचत्वारिंशः पटलः । अथो सकललिङ्गानां लक्ष्म सम्यङ् निगद्यते । अचलं तच्चलं चैव चलाचलमिति त्रिधा ॥ १ ॥ सौधं च पार्थिवं शैलं शार्करं च स्थिरं स्मृतम् । रत्नजं दारवं लौहं त्रयं चैतच्चलं स्मृतम् ॥ २ ॥