मुखालिङ्ग/वधिः] उत्तरार्धे चत्वारिंशः पटलः । आर्षवद् ब्रह्मविष्ण्वंशौ वेदाश्रावेव मिश्रके । पुरुषादिमुखानां तु लक्षणं त्वथं कथ्यते ॥ ४ ॥ कुङ्कुमाभं विशालाक्षं त्रिणेत्रं नक्रकुण्डलम् | चन्द्राङ्कितजटाजूटं प्राचि तत्पुरुषाननम् ॥ ५ ॥ मिन्नाञ्जननिर्भ सिंहत्रिणेत्रं सिंहनासिकम् । दंष्ट्राकरालं दष्टोष्ठं संलिहद्सनोज्ज्वलम् ॥ ६ ॥ पिङ्गश्मश्रुजटाजूटं सर्पप्रोतशिरस्त्रजा । सेन्दुखण्डमरालभ्रूः स्यादघोरं तु दक्षिणे ॥ ७ ॥ इति । बन्धुजीवारुणं रम्यं स्त्रीविलासविभूषितम् । ललितभ्रूयुगं चारुतिलकं मणिकुण्डलम् ॥ ८ ॥ धम्मिल्लाबद्धुमकुटं नीलालकविभूषितम् । उत्तरे वामदेवाख्यं मुखं कुर्यान्मनोरमम् ॥ ९ ॥ पूर्णेन्दुकुन्दधवलं प्रसन्नं रत्नकुण्डलम् । चन्द्राङ्कितजटाजूटं सद्योजातं तु पश्चिमे ॥ १० ॥ एकास्यं वा त्रिवक्त्रं स्यादेकद्वारे शिवालये | द्वाराभिमुखमेवास्यं त्रिमुखं चेत् तु पार्श्वयोः ॥ ११ ॥ न कुर्याद् द्विमुखं लिङ्गं तच्छस्तमभिचारके । चतुर्द्वारे तु भवने कुर्याल्लिङ्गं चतुर्मुखम् ॥ १२ ॥ पञ्चवक्त्रं द्विवक्त्रं वा लिङ्गं राष्ट्रान्तरे गिरौ । स्थापयेच्छत्रुनाशाय विजयाय च भूपतिः ॥ १३ ॥ अत्र पराशरः -- "अथैकत्र चतुर्वकं प्रामादिष्वेव विन्यसेत् । द्विवक्त्रं पर्वतेऽरण्ये परराष्ट्रान्तिकेऽपि च ॥ स्थापयेत् तदरिध्वंसं विदधाति स्वरक्षणम् ||"
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९२
दिखावट