क्षणोद्धाराधिकार:] उत्तराधे अष्टात्रिंशः पटलः । तदर्भ पक्षसूत्रस्य व्यासोऽगाधश्च पूर्ववत् । द्राविडस्यान्यः प्रकार उच्यते- षोडशांशे शिवायामे सूत्रायामो दशांशतः ॥ ३० ॥ ऊर्ध्वंशस्तु चतुर्भागः स्यादधश्च द्विभागिकः । मुकुलांकारमारभ्य पार्श्वसूत्रद्वयं क्रमात् ॥ ३१ ॥ यंशं विहाय पृष्ठे तु युतिरुक्ता तु सूत्रयोः । अथवा षोडशांशेऽधो भाग वेदांशमूर्ध्वतः ॥ ३२ ॥ त्यक्त्वा तु रुद्रांशैरुच्वं प्राग्वद् युतिः स्मृता । इत्थं द्राविडलिङ्गस्य लक्षणोद्धारणं स्मृतम् || ३३ || अथ वेसरलिङ्गस्य त्रिपञ्चांशे शिवोच्च्छ्रये । नालायामो दशांशः स्याद् वस्वंशप्रभृति क्रमात् ॥ ३४ ॥ सूत्रयोर्लम्बनं कुर्याद् भूतवेदगुणांशकैः । तयोर्युतिर्भवेच्छ्रेष्ठे विष्कम्भः षोडशांशतः ॥ ३५ ॥ मध्येऽशे वसुभागोच्चे वेदांशैर्नालमुन्नतम् । अत्र मयः ऊर्ध्वं त्रयोंऽशाश्चाघोंशा गुणभागात् प्रभृत्यधः ॥ ३६ ॥ सूत्रे तु लम्बयेत् त्रिद्विभागेषु स्यात् तयोर्युतिः । गृहीतांशे त्रिधा भक्ते व्यासो भागद्वयेन तु ॥ ३७॥ एवं मध्यममुक्तं स्याल्लिङ्गे वेसरसंज्ञिते । कनिष्ठवेसरस्याथ द्वादशांशे शिवोच्छ्रये ॥ ३८ ॥ अर्धोशमंशानूर्ध्वे तु सूत्रायामो नवांशतः । सङ्गमः पूर्ववञ् ज्ञेयो व्यासे वै षोडशांशके ॥ ३९ ॥ भागेन सूत्रव्यासः स्यात् तदर्धं पक्षसूत्रयोः । कनिष्ठवेसरस्यैवं लक्षणोद्धरणं स्मृतम् ॥ ४० ॥ MALIG "आत्तांशे नवभागे भागेन व्यासगम्भीरा । रेखांप्यकर्कशोक्ता सर्वेषामेव लिङ्गानाम् || अछौ यवान् गृहीत्वा नवधा विभजेत् समं दृढधीः । एकांशेनैककरो लिङ्गे विधातव्या ||
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८०
दिखावट