सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुषशिकालिङ्ग कक्षणम्] उत्तरार्धे सप्तविंशः पटलः । षोडशांशे तु लिङ्गोचे पञ्चभिः पञ्चभिः क्रमात् । षड्भिश्च भागैर्ब्रह्माद्यैः क्षत्रयोग्यं शिवाधिकम् ॥ ६१ ॥ कादिभागैर्विशां योग्यं लिङ्गमुक्तं शिवाधिकम् । लिङ्गतुङ्गे दशांशे तु गुणामिश्रुतिभागिकम् ॥ ६२ ॥ ब्रह्माद्यंशेषु शूद्राणामिष्टं लिङ्गं शिवाधिकम् । पूर्वोक्तसमलिङ्गे तु धारालिङ्गं विकल्पतः ॥ ६३ ॥ चतुर्थं द्विरष्टाश्रं तन्मूले परिकल्पयेत् । बैष्णवांशे च शैवांशे धाराद्विद्विगुणीकृते || ६४ ॥ सर्वेषामपि वर्णानां धारालिङ्गं त्रिधा मतम् । "मूलेऽष्टाश्रं वा कलाश्रं युगाश्रं तस्मादूर्ध्व द्विगुणाः स्युश्च धाराः " इति मयः । सर्वतोभद्रालङ्गे तु धाराः स्युः पञ्चविंशतिः ॥ ६५ सप्तपर्णदलाकाराः समाः सर्वाः समान्तराः । एकैकस्यां तु धारायां चत्वारिंशत्प्रसंख्यया || ६६ ।। कुर्यात् समानि लिङ्गानि स्यात् तल्लिङ्गसहस्रकम् । लिङ्गविकल्पाधिकारः । ब्रह्मादिभाग सिद्धौ तु वेदाश्रं प्रोक्तमार्गतः ॥ ६७ ।। कृत्वा लिङ्गमशेषेण नसभागादथोपरि । चतुरश्रस्य कोणार्धसूत्रलाञ्छनमध्यतः ॥ ६८ ॥ कोणत्यागात् तदष्टाश्रं कुर्याद् विष्ण्वंशसिद्धये । अथवा लिङ्गविस्तारं सप्तधा विभजेत् समम् ॥ ६९ ॥ मध्ये त्रिभागं संस्थाप्य द्विद्विभागविवर्जनात् । मस्वयं सिद्धयति समम वृत्तं निगद्यते ॥ ७० ॥ चतुरथस्य लिङ्गस्य शिरोमध्ये निधाय तु । सूत्रं दिगन्तमानेन आमयेद् वृत्तसिद्धये ॥ ७१ ॥ लिङ्गानामथ सर्वेषां शिरोवर्तनमिष्यते । छत्राभं त्रपुषाकारं कुक्कुटाण्डनिभं तथा ॥ ७२ || K