परिवारदेवताः, तत्स्यानानि] उत्तराधे पञ्चत्रिंशः पटलः । अत्र मयः इति । तस्माद् द्वित्र्यङ्गुलाधिक्यात् क्रमात् साला भवन्ति हि । तत्तद्विष्कम्भमानात् तु त्रिगुणं वा चतुर्गुणम् ॥ ४९ ॥ प्राकारतुङ्गता प्रोक्ता स्वोच्चाष्टांशाच्छिरोघनम् । "उत्तरान्तोच्छ्रितां वा स्यात् कुम्भमण्ड्यन्तकोदयौं । मसूरकादिवर्गाढ्या खण्डहर्म्यादिमण्डिता ॥ बुहुदार्धेन्दुशीर्षा वा ऋजुर्वा भित्तिरिष्यते ।” क्षुद्राल्पभित्तिविष्कम्भं हस्तादारभ्य पूर्ववत् ॥ ५० ॥ क्रमाद् द्वित्र्यङ्गुलाधिक्याद् वर्धयेत् सार्धहस्ततः । सोत्तरा वाजनच्छत्रशीर्षवत्यश्च भित्तयः ॥ ५१ ॥ उपरिष्टात् तु वप्राणां सर्वेषां तु शिवालये । मनोरमतमौं कुर्यात् परितो वृषभावलिम् || ५२ ।। मूलं जन्मस्थलं हस्तमुच्छ्रितं मूलसालतः । द्वितीयं हीनषण्मात्रं प्रतिसालं च तत्क्रमात् ॥ ५३ ॥ हस्तार्धे पादजन्मोच्चं तस्माद् द्विव्यङ्गुलक्षयात् । महामर्यादभित्त्यन्तमेवं हाप्यमथापि वा ।। ५४ ॥ क्षुद्रे साष्टादशाङ्गुल्यं मध्यमे मूलपादुकम् । क्षपयेत् तच्चतुर्मात्रैर्यावत् पञ्चान्तसालकम् ।। ५५ ।। प्राकारलक्षणम् । वृषस्थानं तु पुरतः स्यादामेय्यां महानसम् । मातॄणां तु यमोपान्ते गजवक्त्रस्य नैर्ऋते ।। ५६ ।। वारुणे वासुदेवस्य स्कन्दस्य तदनन्तरम् । वायव्यामथवैशान्यामुमादुर्गालयः : स्मृतः ॥ ५७ ॥ उत्तरे धनदस्य स्यात् कोष्ठागारं त्रिशूलिनि । ईशेन्द्रमध्ये भातुः स्यान्नृत्तस्यैशेऽथवा पुरः ॥ ५८ ॥ 'तो', १. 'यावत् । म' ज. पाठ:. ३. 'रां' क. ख. पाठ:
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५४
दिखावट