३४४ ईशानशिवगुरुदेवपद्धतौ आचार्यो भगवान् रुद्रास्त्रभिर्निष्पादितं तु यत् । तद्वस्तु स्थिरमेव स्याद् दृष्टादृष्टफलप्रदम् ॥ १४ ॥ विमानप्रतिष्ठाधिकारः । हृत्प्रतिष्ठा विधेयाथ दैवे धानि सुनिष्ठिते । चतुर्द्वारादिसंयुक्तं प्राग्वदाभूष्य मण्डपम् || ६५ ॥ विकिरक्षेपकुम्भास्त्रवाधानादिपूर्वकम् । मन्त्राणां तर्पणान्तं तु कर्म दीक्षावदाचरेत् ।। ६६ ।। हिरण्येन यथाशक्ति कृत्वा प्रासादपूरुषम् । बहिरुत्तरवेद्यां तु संसाध्याच्छाद्य वाससा ॥ ६७ ॥ विन्यस्य चेष्ट्वा गन्धाद्यैस्ततो मण्डपमानयेत् । शय्यायां शाययेद् वेद्यां पुरुषं प्रलयाकलम् ॥ ६८ ॥ शिवाज्ञापदसम्बुद्धं ततः कुर्यात् सचेतनम् | तारहृत्सम्पुटं हंसमुद्घृत्यात्मपदं ततः ॥ ६९ ॥ शिवाज्ञया शरीरेऽस्मिन् त्वया स्थातव्यमित्यपि । उच्चार्याथाञ्जलिं पुष्परापूर्य द्वादशान्ततः ॥ ७० ॥ चैतन्यं तारकाकारं नियोज्य कुसुमाञ्जलौ । हिरण्यपुंसो हृत्पद्मे नाडीमार्गेण योजयेत् ॥ ७१ ॥ ततः कलादिकं देहं तस्मिन् सङ्कल्प्य विन्यसेत् । तद्यथा ओं हां कलायै नमः | ओं हां कलाधिपतये नमः । ओं हा कलाधिपस्य कर्तृत्वाभिव्यक्ति कुरुकुरु । अनेनैव प्रकारेण विद्यारागादिकान्यपि ॥ ७२ ॥ अहङ्कारं तु तत्त्वानि पृथगुच्चार्य तु न्यसेत् । विद्यादीनां विशेषेण कार्य भिन्नं प्रशस्यते || ७३ || [क्रियापादः तद्यथा विद्याधिपास्य ज्ञानाभिव्यक्तिं रागाधिपास्य विषयेषु शगं, प्रकृत्यधिपास्य स्वाधिकारकर्तृत्वं, बुद्धयधिपास्य बोधम् अहकाराधिपास्या- भिमानं कुरु कुर्विति सर्वत्रान्ते योजयेत् । 1 -
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४७
दिखावट