ईशानशिवगुरुदेवपद्धतौ तत्तन्मात्राङ्गुलैरर्कदिग्वसूनां तुं संख्यया । आयतान्युत्तमादीनि मृल्लोष्टानि भवन्तिं हि ॥ ४६ ॥ स्खायामार्धात् स्मृतो व्यासः शरांशे ग्रंशतोऽपि वा । व्यासे रामाब्धिबाणांशे लोष्टोत्सेघऽशतो भवेत् ॥ ४७ ॥ उत्तमादिक्रमादेवं मृल्लोष्ठेषु स्मृतो विधिः । सुवर्णरूप्यताम्राणां लोटैः श्रेष्ठादिकं फलम् ॥ ४८ ॥ लभते देवधिष्ण्यादौ मार्त्तिकैरधमाधमम् । मानप्रमाणं लोहानां ज्ञेयं वित्तानुसारतः ॥ ४९ ॥. सर्वाण्यपि समानानि सप्तभेदानि तान्यपि ।' द्वयश्रं चैव द्विकोणामं पार्श्वलोष्टं च वर्तुलम् ॥ ५० ॥ कोणलोष्टं च वक्रं च पद्मलोष्टं च सप्तमम् । क्रमपङ्क्तिनिवेशस्तु तैर्विधेयं तु युक्तितः ॥ ५१ ॥ इष्टकालोष्टकरणम् । करालमुद्गगुल्मासकल्कचिक्कणकाह्वयाः । चूर्णोपयुक्ताः पञ्चैते सुधाप्रकृतयो मताः ॥ ५२ ॥ अभयाक्षबीजमात्राः शर्कराः स्युः करालकाः । मुद्गा मुद्गसमा ज्ञेया मुगिनः क्षुद्रशर्कराः ॥ ५३ ॥ सार्वत्रिपाद द्विगुणकिझल्कसिकतान्वितम् । चूर्णं तु शर्करायुक्त्योर्यद् गुल्मासं तदुच्यते ॥ ५४ ॥ करालमुद्द्रयोः पूर्वोक्तमानेन सिकतान्वितम् । चणकस्य च चूर्णस्य पिष्टं यत् कल्कमिष्यते ॥ ५५ ॥ चिक्कणं केवलं त्वम्बु बद्धोदकमिति द्विधा । केवलेनाम्भसा पूर्वे पूर्वोक्तांस्त्रिः प्रकुट्टयेत् ॥ ५६ ॥ क्षीरद्रुमामलाक्षाणां कदम्बाभययोरपि । त्वग्जलैत्रिफलातोय माषयूषं च तत्समम् ॥ ५७ ॥ संयम्य शर्कराशुक्त्योश्चूर्णं तत् खातवारिणि । खुरसंकुट्टनं कृत्वा स्रावयित्वाथ वाससा ॥ ५८ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३७
दिखावट