सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदवेपतौ पुक्काहारदारस्य युक्त चेष्टस्य कर्मसु । युक्तस्वमाववोधस्य योगो भवति दुःखहा ॥ इति अभ्यन्तरस्तथा बाह्येर्द्रव्यैर्गन्धादिभिः क्रमात् । चौदिताराघनं शम्भो तदीश्वरपूजनम् ॥ ३० ॥ तत्राप्यनभैिसन्धाय फाले भक्त्योपपत्तितः । देवस्येष्टस्य यजनं कर्मणा मनसापि च ॥ ३१ ॥ योगिनां योगसिद्धयर्थं शस्तमीश्वरपूजनम् । याज्ञवल्क्यो बलिष्ठश्च योगाचार्यो महामुनी ॥ ३२ ॥ पृथग्यमांश्च नियमान् दृशभेदानिहोचतुः । "अहिंसा सत्यमस्तेयं ब्रह्मचर्ये दार्जवम् ॥ ३३ ॥ क्षमा धृतिर्मिताहारः शौंचं चेति यमादयः । तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् ॥ ३४ ॥ सिद्धान्तश्रवणं चैव हीर्मतिश्च जपो हुतम् । एते तु नियमाः" । ते ॥ नियमाः ॥ आसनान्यपि चोक्कानि बहुधा पूर्वपद्धतौ ॥ ३५ ॥ तेषां पञ्चैव शस्तानि योगासीद्वकरराणि वै । स्वस्तिकं पद्मसंज्ञं च भद्रं योगासनं तथा ॥ ३६ ॥ गोमुखं चेति तेषां तु लक्षणं पृथगुच्यते । उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं विधाय । ऋजुमध्यगलक्षणाग्रकायो भवति स्वस्तिकमासनं निविष्टम् ॥ ३७ ॥ चरणाम्रयुगं तथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे । उपविश्य पुरेव पद्मसंज्ञं कथितं तद्विपरीततस्तु भद्रम् ॥ ३८ ॥ अधिरोप्य तु दक्षिणाङ्घ्रिमूरावध सव्यं चरणं तु दक्षिणोरौ । अधिरोष्य पुरेव सूपविष्टो यदि योगासनमिष्टदं तदाहुः ॥ ३९ ॥ वृषणे तु निगृह्य बामजङ्खापदगुल्फे त्वधिरूढसस्फिगूरूः | उपारस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः ॥ ४० ॥ || आसनानि ||