पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४८ ईशानशिवगुरुदेवपद्धतौ वास्तुब्रह्मासनादीष्ट्वा पञ्चशुद्धीविधाय तु । मूलाङ्गपूरितार्घ्यः सन् तिलकी पुष्पशेखरः ॥ ३७ ॥ कूर्माधो धारिणीं शक्तिं पीठे शक्त्यासनं तु तत् हैमं सिंहासनं ध्यात्वा पादान् धर्मादिकानपि ॥ ३८ ॥ सत्त्वादिकन्दनालाब्जं सूर्यबिम्बोदिकादिकान् । पत्रादिषु ततः शक्तीर्वामाद्याः केसराग्रगाः ॥ ३९ ॥ मनोन्मनी स्वयं साक्षान्मध्ये गौरी शिवा भवेत् । तन्मूर्तिं मन्त्रदेहं च चिच्छक्तिं स्वाद्धृदम्बुजात् ॥ ४० ॥ द्वादशान्तगतां प्राग्वन्मूर्तिहृत्पङ्कजे न्यसेत् । स्थापनं चैव सान्निध्यं सन्निरोधं प्ररोचनम् ॥ ४१ ।। अमृतीकरणं चावकुण्ठनं हृदयादिभिः । ब्रह्माणि चेशानादीनि कास्यहृद्दशनाङ्घ्रिषु ॥ ४२ विन्यसेत् पञ्च शक्तीश्च हल्लेखां गगनां तथा । रक्तां करालिकां चापि महोच्छुष्मां च कादिषु ॥ ४३ ॥ ब्रह्मादीन् पञ्च पादादि हृदये च सरस्वतीम् । गायत्रीमपि सावित्रीं स्तनयोर्विन्यसेत् ततः ॥ ४४ ॥ क्रमादर्थ्यादिभिः सम्यगुपचारैर्यजेच्छिवाम् । पत्रेष्वङ्गावृतिं चेष्ट्वा बाह्ये दूत्यष्टकं यजेत् ॥ ४५ ॥ अनङ्गरूपा चानङ्गमदना मदनातुरा | तथा पवनवेगा च ततो भुवनपालिका ॥ ४६॥ स्यात् सर्वशिशिरानङ्गवेदनानङ्गमेखला । इष्ट्वैता गन्धपुष्पाद्यैर्द्वाःस्थाश्चापि जयादिकाः ॥ ४७ ॥ इन्द्रादीलोकपालांश्च वृषभं मुखमण्डपे । बीरं विघ्नं ततो मातृः शास्तृस्कन्दौ निशाकरम् ॥ ४८ ॥ निर्माल्यधारिणीमैशे स्थापयेत् सुभगाह्वयाम् । बलिपीठे च संस्थाप्य दिक्पालेभ्यो जुहोति च ॥ ४९ ॥ १. 'हे', २. 'म्बो क. पाठः, ३. 'तू' ख. पाठः