पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे त्रिपन्चाशः पटलः । ऐरावतं पुण्डरीकं कुमुदाञ्जनवामनान् । पुष्पदन्तं सार्वभौमं सुप्रतीकं च दिक्कूमात् || ४१ || तारादिभिर्नमोन्तैश्च नामभि: प्राग्वदर्चयेत् । ऐन्द्यां दिशि गणा ये तु वज्रहस्ता महाबलाः ॥ ४२ ॥ इत्यादिभिः क्रमान्मन्त्रैर्विघ्नपारिषदान्तकैः । नमोन्तैर्विकिरेद् रात्रौ भूतक्रूरेण वै बलिम् ॥ ४३ ॥ तीर्थस्नानं यथापूर्वी कारयेत् स्नपनं तथा । मन्त्रास्तु स्नपने शैवकथिताः स्वाङ्गमूलतः ॥ ४४ ॥ गायत्र्या च गणानांत्वेत्यादिना मध्यकुम्भतः | अभिषिञ्चेद् गणाधीशमुपचारैर्यथोदितैः ॥ ४५ ॥ लभन्ते पूर्वकथितं यजमानादयः फलम् । एवं समासेन गणेशतन्त्रं तन्त्रान्तरोक्तं प्रविचार्य सम्यक् । प्रोक्तं प्रतिष्ठादिकमुत्सवान्तं शैदानुसारेण तु तद्विधेयम् ॥ ४६३ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे गणेशतन्त्रपटलो द्विपञ्चाशः ॥ अथ त्रिपञ्चाशः पटलः । अथ स्कन्दप्रतिष्ठादौ कर्म शैवसमं स्मृतम् | विशेषाश्चापि ये तत्र लिख्यन्ते तन्त्रचोदिताः ॥ १ ॥ कनिष्ठदशतालेन स्कन्दस्य प्रतिमा स्मृता । प्राग्वच्चित्रादिभेदन शैली लोहमयी तथा ॥ २ ॥ मृन्मयी रत्नजा तस्य स्थितासीना तथा भवेत् । मयूरवाहना वा स्यात् षण्मुखी षण्मुखस्य तु ॥ ३ ॥ सनत्कुमारस्कन्दादीनेकवक्त्रांस्तु कारयेत् । चतुर्भुजान् वा द्विभुजान् द्विनेत्रानेव कारयेत् ॥ ४ ॥ षण्मुखो द्वादशभुजो द्वादशाक्षः स्वलङ्कृतः । षड्भुजो वा चतुर्हस्तो मयूरस्थः स्थितोऽथवा ॥ ५ ॥

१. 'त्र' ख. पाठः