सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वारलक्षणम्! उत्तरार्धे एकत्रिंशः पटलः । मुख्यद्वारं तु देवानां नराणां च विशेषतः | द्वारोच्चशेषे पञ्चांशे भवेदंशद्वयं त्वधः ॥ १११ ॥ ऊर्ध्वं त्रयोंऽशास्तत्र स्युः फलका चात्र चित्रिता । मध्येऽष्टमङ्गलानि स्युः पार्श्वयोनकवल्लयः ॥ ११२ ॥ दण्डाच्चतुष्षडष्टांशं कवाटफलकाधनम् । श्रेष्ठमध्याघमं ज्ञेयं क्रमात् सर्वेषु धामसु ॥ ११३ ॥ फलकाबहलादर्धं चतुर्थाशोनमेव वा । तल्पदण्डस्य विस्तारस्तदर्थं तद्धनं भवेत् ॥ ११४ ॥ रामेषुमुनिनन्देशसंख्यां दण्डा भवन्ति हि । दण्डाग्रं बोघिपत्रं वाप्यवस्कन्धनवाकृतिः ।। ११५॥ स्वस्तिकामं तु वा कुर्यादत्र प्राह पराशरः | “श्रीमुखसन्धिपालपत्रह्रस्वदण्डकुण्डलशृङ्गगुल्फान्तर्गलकविषार्णवलाहक- पिञ्जरीगुच्छकवनकार्षचन्द्राद्यवयवानि मुख्यलोहैरवसा वा दृदतरं कुर्यात् " कवाटं चैव योगश्चाप्येकजातितरूद्भवौ ॥ ११६ ।। सम्पत्करौ तदन्यौ तु विपरीतफलप्रदौ । स्त्रीणां दुःशीलता च स्यात् तस्मान्मिश्रं न कारयेत् ।। ११७ ।। बहिर्भागस्तु बाह्ये स्वादन्तर्भागोऽन्तरेव हि । कवाटानि चतुर्धा स्युर्युग्मं चायुग्ममेव च ॥ ११८ ॥ संहारो धावनं चैषां पृथग् लक्षणमुच्यते । कवाटयुगलाभ्यां तु स्थिताभ्यां वामदक्षिणम् ॥ ११९ ॥ सस्कन्धपट्टिकाभ्यां स्माद् युग्मं यत्राभिधीयते । चाममागे स्थित त्वेकमयुग्माख्यं कपाटकम् ॥ १२ ॥ गृढप्रवेशनिर्यूहं स्तम्भे वाध्युत्तरेऽपि वा । संहाराख्यं कपाट तद् भितिवं च धावनम् ॥ १२१ ॥ देवद्विजनृपाणां तु युग्मायुग्मे च पूजिते । अयुग्मादीनि चान्येषां कवाटानि भवन्ति हि ॥ १२२ ।। ग. पाठ:- ३. 'लगु' ख. पाठः, २. 'कनवाघ' ग. पाठ.. "णकव 2