पूर्वार्धे एकत्रिंशः पटलः । सा च स्यात् स्तम्भविस्तारात् त्रिगुणं वा चतुर्गुणम् । दीर्घा पञ्चगुणं वापि नीचमध्योत्तमा स्मृता ।। ६६ ।। नागवृत्ता पत्रचित्रा समुद्रोर्मिश्च पोतिको । त्रिविघा नामभिर्ज्ञेयास्तासां लक्षणमुच्यते || ६७ || स्तम्भव्याससमोत्सेध विस्तारा श्रेष्ठपोतिका । शरांशोना मध्यमा स्यांदूनद्यंशा कनिष्ठिका ॥ ६८ ॥ भूतेभमकरव्यालरत्नबन्धविचित्रिता । वल्लीचित्राग्रपट्टा च सा ख्याता चित्रपोतिका || ६९ ॥ केवलं पत्रवल्लीभिर्विचित्रा पत्रपोतिका । तरङ्गमात्रचित्रा या पोतिका स्यात् तरङ्गिणी ॥ ७० ॥ तरङ्गाश्चात्र वेदर्तुवस्खाशादित्यसंख्यया । कार्यास्तूभयतस्तुल्याः पट्टिकाच्छन्नमध्यगाः ।। ७१ ।। त्रिभागे पोतिकोत्सेधे सा(ध्यं ? धं)शेनाग्रपट्टकम् । तदर्धार्धेन तदषः क्षेमच्छायान्वितं भवेत् || ७२ || तदुच्चार्घात् त्रिभिर्वाशैरंशाभ्यां वात्र कल्पयेत् । स्वव्यासार्धात् त्रिपादाद् वा कुर्यात् ताखप्रमण्डनम् ॥ ७३ ॥ अत्र पराशरः "नानाविधाकृतियुता अपि सर्वपादाः प्रासादमण्डपविधौ मुनिभिः प्रशस्ताः । शालासभागृहविधौ चतुरश्रवृत्ताः सम्पत्परास्तु विपरीतफलास्त्वर्थान्ये ।।” मिश्रामिश्रा अपि स्तम्भा देवागारेषु पूजिताः । अमिश्रा एव गेहेषु नराणां शुभदाः स्मृताः ॥ ७४ ॥ स्तम्भालङ्कारः उत्तरं विन्यसेदूर्ध्वं तच्चापि त्रिविधं मतम् । खण्डोत्तरं पत्रबन्धं ततो रूपोत्तरं भवेत् ॥ ७५ ॥ 'का:', २. 'थो' ग. पाठः. ३१३
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६
दिखावट