ईशानशिवगुरुदेवपद्धतौ अथाष्टचत्वारिंशः पटलः । अथ नित्योत्सवं शम्भोः कुर्यात् सांनिध्यकारकम् । येनारिष्टानि शाम्यन्ति गुणास्तुष्टिं व्रजन्ति च ॥ १ ॥ त्रिसन्ध्यं पूजयित्वेशं नैवेद्यहवनान्तकम् । रुद्रपारिषदेभ्यस्तु बलिं दद्याद् यथाविधि ॥ २ ॥ अत्र मञ्जर्यां- - “कुर्यान्नित्यबलिं त्रिसन्ध्यमुदितं पाक्यस्तदर्थं चरु- र्हृन्मन्त्रेण तु तण्डुलांस्तु सलिलैः प्रक्षाल्य चाग्नौ पचेत् । तेनाज्यं त्वभिघार्य पक्वसमये मूलेन मन्त्रेण तत् तेनैवाप्यवतार्य तेन हविषां लिङ्गं प्रकुर्याच्छुभम् || " इति । तद्यथा सौवर्णे राजते तद्वदमत्रे ताम्रजेऽपि वा । षोडशाङ्गुलविस्तीर्णे धौते चाज्याभिघारिते ॥ ३ ॥ सिद्धं हविस्तत् प्रक्षिप्य हृदयेनाभिघार्य तु । मूलेनोचं भवेल्लिङ्गं रवेिदिग्वसुमात्रकैः ॥ ४ ॥ श्रेष्ठादिकं तदाज्येन दना चालिप्य सर्वतः । सस्वर्णपुष्पं शिरसि तस्मिन्नावाह्य मूलतः ॥ ५ ॥ शिवं चलासनगतं गन्ध।द्यैः पूजयेत् क्रमात् । भेरीपणवगोवक्त्रढक्काझल्लरिकानकैः ॥ ६ ॥ तिमिलामड्डुकाम्भोजतालकाहलमर्दलैः । सवेणुवीणाकांस्यैश्च बालेयात्राभिशंसिभिः ॥ ७॥ मध्यमं षष्टिमात्रं तु वादयेयुश्च वादकाः । ततः स्नातं द्विजं शिष्यं शुश्रुषु वाभ्यतं शुचिम् ॥ ८ ॥ शक्कोष्णीषे तरास कटकाद्यैर्विभूषितम् । संप्रोक्ष्य तं वृषं ध्यात्वा तल्लिङ्गं पात्रसंस्थितम् ॥ ९ ॥ आरोप्य तस्य शिरासे पुष्पाण्यारं पयेद् गुरुः । तथैवान्यस्तु सकलं लिङ्गं हेमादिकं द्विजः ॥ १० ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५३
दिखावट