सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिव गुरुदेवपद्धतौ काञ्चनं महिषं छागं मुक्ताहारं च पित्तलम् । धेनुं पयस्विनी रूप्यं क्रमेण स्थापकाय तु ॥ ५६ ॥ ततो लिङ्गं च पीठं च नमस्कृत्यैकतां गतम् । आचार्यो जुहुयाद् ब्रह्ममूलास्तु शतं घृतम् ॥ ५७ ॥ पुनरागत्य देवेशं नत्वा विज्ञापयेद् गुरुः । निर्दोषतां प्रसीदास्मिन्नपराधं क्षमस्व भोः ॥ ५८ ॥ इत्युक्त्वा सिकताभिस्तु किन्धं पूरयेत् । अशेषमष्टबन्धेन नीरन्ध्रं विदवीत च ॥ ५९ ॥ लाक्षा सर्जरसः शङ्खः सिकता त्रिफलारसः । कुन्दुरुष्कं च संपिष्टं वज्रलेपोऽयमोरितः ॥ ३० ॥ आम एवेति यावत् । अथवा, लाक्षा सर्जरसः सिक्थं शर्कराचूर्णगुग्गुल: । गैरिकं च गुलं तैलमष्टवन्धं इतारितः ॥ ६१ ।। अन्त्याद् भागाभिवृद्धिः स्यात् पाकारचक्कणवद् भवेत् । ४४४ अपि च । लाक्षागुलमचूच्छिष्टगुग्गुलूनां समांशकैः ॥ ६२ ॥ सर्जचूर्णं तु तुल्यं स्याद् गैरिकस्य तदंतः । सर्वेषामधमान तैलं काले नियोजयेत् ॥ १३ ॥ अयःपात्रे पचेद् युक्त्वा तद्दयी मृदुवादेना । अत्रापि चिक्कणीपाको विज्ञेयो निपुणेन हि ॥ १४ ॥ एतेषामष्टबन्धानां शिकं दृढतां नयेत् । लिङ्गपीठं तु नीरन्धं नारं तु न विशे (द्य) था ॥ ६५ ॥ अथवा सीसपत्रैस्तु नीरन्ध्रकरणं स्मृतम् । ऊहप्रत्यूहतो युक्त्या लिङ्गं प्रक्षाल्य वै ततः ॥ ६६ ॥ निद्राकुम्भेनाभिषिच्य किञ्चिच्छादकैरपि । अर्ध्यपश्चामृतैश्चैव जलधूपान्तरैः क्रमांत् ।। ६७ ॥ यवगोधूमचूर्णाचैरववृष्याभिषेचयेत् । ततः शयनवेदिस्थं शिवकुम्भं च वर्षनीम् ॥ १८ ॥