सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तराधे एकत्रिंशः पटलः । कम्पनिद्रा कम्पयुता पुष्पवत् समखण्डिता । मूलपादार्चना वेदिः पुष्पखण्डेति कथ्यते ॥ ४० ॥ सैव निद्राकम्पपट्टपद्मपत्र विचित्रिता । पादे पादान्तरे चित्रा चित्रखण्डाभिधीयते ॥ ४१ ॥ स्तम्भकम्पाब्जपट्टाढ्या पट्टे शैवलचित्रिता । ऊर्ध्वाधः पद्मपत्राढ्या पादे पादान्तरेऽपिच ॥ ४२ ॥ नरनारीपत्रचित्रा शैवलाख्या हि वेदिका । सैवाधरोर्ध्वाम्बुजयोर्वेत्रयुग्ममनोरमा |॥ ४३ ॥ प्राग्वद् विचित्रवेषा स्यात् सा वेदी चित्रशैवला | जालार्थे वेदिकां नैवच्छिन्द्यादन्यत्र तोरणात् ॥ ४४ ॥ द्वारं वात्र यथोद्देशं वेद्याश्छेदो न दुष्यति । पुष्पखण्डा चित्रखण्डा नृणां द्वे वेदिके स्मृते ॥ ४५ ॥ बेदीचतुष्कं स्तम्भादौ देवागारेषु सम्मतम् । स्तम्भायामे त्रिभागे स्याद् वेदार्थोऽशस्तु मूलतः ॥ ४६ ॥ अष्टाश्रः षोडशाश्रो वा मध्यांशो वृत्त एव वा । अग्रभागोऽपि वेदाश्रो भवेत् स्तम्भेषु केषुचित् ॥ ४७ ॥ मूलव्यासे तु पञ्चांशे व्यंशोनः स्तम्भमध्यतः । अन्त्योंऽशः सप्तमांशोनो मूलविस्तारितो भवेत् ॥ ४८ ।। कुम्भाः स्युः पादविष्कम्भाश्चतुर्थांशाधिकास्तु वा । साध्यर्धाः पादहीना वा द्विगुणा वा भवन्ति हि ॥ ४९ ॥ श्रीकरश्चन्द्रकान्तश्च सौमुख्यः प्रियदर्शनः । इति कुम्भाश्चतुर्थी स्युर्वृत्तानां श्रीकरो भवेत् ।। ५० ।। अष्टाश्राणां चन्द्रकान्तः श्रीकर: स्यात् कलाके | स्तम्भानां चतुरश्राणां सौमुख्यः कुम्भ इष्यते ॥ ११ ॥ शेषाणां चातिभाराणां कुम्भः स्यात् प्रियदर्शनः । कुम्भमागे नवांशे तु घृगेकेन विधीयते ॥ ५२ ॥ १. , २. 'वा' ग. पाठः,