कम्] उत्तरार्धे विचरवारिंशः पटलः । दक्षिणे वरदोऽधस्तादूर्ध्वकर्तरिपाणिना । गां दधानो वामोर्ध्वकरेण हरिणं दधत् ॥ ४७ ।। अधोवामकरणोमामालिङ्गय समभङ्गिनीम् । भगीरथेन चान्यैश्च मुनिभिर्वन्दितो भवेत् ॥ १८ ॥ इत्थं गारं कुर्याच्छेपमू पूर्ववत् । लक्षणम् ।
त्रिपुरान्तकदवः स्याद् वैशाखस्थानकान्वितः ॥ १९ ॥ आभङ्गसमभङ्गाभ्यामतिभङ्गेन वा भवेत् । रामवेदेषुमात्रैः स्यान्नतिमानं त्रिषु कमात् ॥ ५० ॥ विकारभृतिकृत्यशैः पादाङ्गुष्ठान्तरं कमात् । सपिनाकः करो नामः कक्षान्तोच्च करोऽपरः ॥ ५१ ॥ सबाणः परहस्तौ द्वौ सटमृगपोतकौ । यथापूर्वी तथा देवी वामपार्श्वे स्थिता भवेत् ॥ ५२ ॥ त्रिपुरान्तकलक्षणम् । कल्याणसुन्दरस्य स्यादुष्णीषाद् वामभालके । - वामनेत्रे पुटान्ते च हिक्कामध्ये च दक्षिणे ॥ ५३ ॥ नाभेस्तु त्रिचतुर्मात्रे सूत्रं तद्गुरुफमध्यतः । प्रादक्षिण्येन देवस्य गन्तुकामस्य पावकम् ॥ ५४ ॥ सध्येतरकरो देल्या हस्तालम्बी तथा भवेत् । वरदो वामहस्तः स्यात् परहस्तौ यथापुरम् ॥ ५५ ॥ देवी सोपलहस्ता] स्यात् त्रिभङ्गाङ्गी विभूषिता । श्री भूमिभ्यामनुगता गौरी देवानुगामिनी ॥ ११ ॥ होता ब्रह्मा भवेदू दाता विष्णुः सफलशोऽम्बुदः । सर्वदेवर्षिगन्धर्वयक्षायैर्वन्दितो भवेत् ॥ ५७ ॥ कल्याणसुन्दरलक्षणम् । अर्धनारीश्वरस्यापि सूत्रं स्यात् समभजवत् । चतुर्भुजो वा द्विभुजो दक्षिणाङत्रिः स्थितोऽस्य त ॥ ५८ ॥