पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

सोमादीनां संस्थानः समानस्थानो भवति । ते येषु लोकेषु निवसन्ति अयमपि वेदिता तेषु लोकेषु निवसेदित्यर्थः। तथा ब्रह्मणः प्रजापतेः संस्थानः समानस्थानो भवति । स्वर्गे लोके च महीयते पूज्यते। पूर्वजन्मानि हि स्मरन् पुनराजायते स्मरन्नेव​ सन् उत्पद्यते इत्यर्थः ॥ ७ ॥

अथास्य ब्राह्मणस्याध्येतुः फलमाह -

तान्येतान्यार्षेयाणि योऽधीते ब्राह्मणः पङ्क्तिपावनो भवत्यर्घ्यः ॥ ८ ॥

तानि पूर्वं सामान्येनोक्तानि एतानि विस्तरतोऽग्रे पृथक् पृथक् वक्ष्यमाणानि ऋषिसंबन्धीनि साम्नां नामधेयानि योऽधीते पठति ब्राह्मणः [सः] पङ्क्तिपावनः पङ्क्तिः एकत्र भुञ्जानानां ब्राह्मणानां समष्टिः तां पुनाति शुद्धयति । येन तथाविधो भवति । अर्घ्यः अर्घार्हः पूजार्हश्च भवति ॥ ८ ॥

एतद्ब्राह्मणमधीयानस्य किंचिद्बतमुपदिशति -

य एवंवित्स्यान्न मृन्मये भुञ्जीत । तथा हास्यायुर्न रिष्येत तेजश्च ॥ ९ ॥

य एवंवित् वक्ष्यमाणप्रकारेण आर्षेय​ब्राह्मणस्यार्थं वेद लब्धवान् स्यात् भवेत् स मृन्मये मृद्विकारे पात्रे न भुञ्जीत। तथा ह तथा सति अस्य अधीयानस्य आयुर्न रिष्येत न विनश्येत् । प्रवर्धेतेत्यर्थः । तेजश्व ब्राह्मं शरीरं वा न रिष्येत । एतदर्थमेतद्ब्राह्मणाध्ययनम् ॥ ९॥