पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अ.यवाह्मणम् दैवोदासं च ॥७॥

प्र दैवोदासः (सा. ५१) इत्यत्र एकं सामोत्पन्नम् । प्रदेवोदासोग्नीः (ग्राम. २. ५. ५१.१) इति मन्द्रचतुर्थादिकं दैवोदासम् । दिवोदासेन ऋषिणा दृष्टम् ॥ ७॥

सौक्रतवं च ॥ १.६.८॥

अधज्मो अध वा दिवः (सा. ५२) इत्यत्रैकम् सामोत्पन्नम् । अधज्जा ओवा (ग्राम. २. ५. ५२. १) इति मन्द्रचतुर्थादिकं सौक्रतवम् सुक्रतुशब्दयुक्तमेतन्नामकं साम । एतन्मन्त्रनिबन्धनं नामधेयम् । सर्वत्र चकारो वक्ष्यमाणापेक्षः ॥ ८॥

काण्वे द्वे ॥ १.६.९॥

काय नो वना त्वम् (सा. ५३) इत्यत्र सामद्वयमुत्पन्नम् । कायमानोवनातुबाम (ग्राम. २. ५. ५३.१) इति चतुर्थमन्द्रादिकम् प्रथमम् । एकाया (ग्राम. २. ५. ५३. २) इति [ चतुर्थमन्द्रादिकं ] द्वितीयं च । एते द्वे काणे कण्वस्य स्वभूते ॥९॥

मानवे द्वे ॥ १.६.१० ॥

नि त्वामग्ने मनुर्दधे (सा. ५४ ) इत्यस्यां सामद्वयोत्पत्तिः । नित्यामग्नाइ (ग्राम. २. ५. ५४. १) इति मन्द्रस्वरादिकमाद्यम् । होबाइ