सामग्री पर जाएँ

पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः खण्डः


वायोः षट् स्वराणि पराणि वा ॥ १ ॥

यज्जायथा अपूर्व्य (सा. ६०१) इत्यत्र पञ्च सामान्युत्पन्नानि । एयज्जायथाः (आ. गा. ३. ७. १५०) इति द्वितीयक्रुष्टादिकम् । एहाउ- यज्जायथाः (आ. गा. ३. ७.१५१) इति द्वितीयादिकम् । एहाउ । औहो। यज्जायथाः (आ. गा. ३. ७. १५२) इति द्वितीयक्रुष्टादिकम् । यज्जायाज्जा । यथा अपूर्वियाऔहो (आ. गा. ३. ७. १५३) इति क्रुष्ट- द्वितीयादिकम् । हुवौहोइ (त्रिः)। यज्जायथाः (आ. गा. ३. ७.१५४) इति द्वितीयक्रुष्टादिकम् । एवं पञ्च सामान्युत्पन्नानि । यो रयिं वो रयिन्तमः (सा. ३५१) इत्यत्र सामैकम् । योरयिंवोरायिन्तमाः (आ. गा. ३. ७. १५५) इति द्वितीयतृतीयादिकम् एकं साम । एवं ऋग्द्वयाश्रितानि षट् सामानि वायोः स्वरसंज्ञकानि । अथवा पराणि स्वर्गलोकपराणि साधनानि । अत्रोभयत्र ब्राह्मणम् ---- स्वरसामान एते भवन्ति ॥ [स्व]र्भानुर्वा आसुर आदित्यं तमसाविध्यत्तं देवाः स्वरैरस्पृण्वन् इति । (ता. ब्रा. ४.५.१-२) परैर्वै देवा आदित्यं स्वर्ग लोकमपारयन् । यदपारय॑स्तत् पराणां परत्वम् (ता. ब्रा. ४.५.३) इति ॥ १ ॥

पुनरपि वचनमुस्वेन सूर्यसंबन्धित्वं स्वर्गलोकसाधनमेवं वैषां दर्शयितु बहुविकल्पं दर्शयति -

स्पराणि वा । पारणानि वा। अनन्त्यानि वा। आदित्यानि वा। स्वर्ग्याणि वा । स्वर्गस्य लोकस्य गमनानि वा ॥२॥

स्फराणि स्फीता [नि] ओजोयुक्तानीत्यर्थः । पारणानि लोकपारणसाध- नानि । आनन्त्यानि बहुफलप्रदानि । आदित्यानि आदित्यसंबन्धीनि ।