पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०७ पञ्चमः अध्यायः (११)


शैतोष्माणि चत्वारि । शीतोष्णानि वा ॥ ५.११.६॥

त्वं ह्यङ्ग दैव्य (सा. ५८३) इत्यत्र चत्वारि सामान्युत्पन्नानि । त्वंहिया । गदाइवियपवनानजनिनानि (ग्राम. १७.११. ५८३.१) इति मन्द्रद्वितीयादिकम् । त्वंहि ग । गदाइविय (ग्राम. १७.११. १८३.२) इति मन्द्रादिकम् । त्वंागदा (ग्राम. १७.११. ५८३.३) इति चतुर्थ- मन्द्रादिकम् । त्वंहोअंगदैविया (ग्राम. १७. ११. ५८३.४) इति मन्द्र- द्वितीयादिकम् । एतानि चत्वारि शैतोमणि अथवा शीतोष्णानि । धुमत्तमः (सा. ५८३) इति वचो उप्णो हि विद्यते । अमृतत्वाय (सा. ५८३) इत्यनेन शीतम् । तत्पदसंभवादेतेषां शीतोष्मनाम संपन्नम् ।। ६॥

गायत्रपार्श्व च संतनि च । सोमसामानि चैव त्रीणि ॥५.११.७॥

एष स्य धारया सुत (सा. ५८४) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र एषाः (ग्राम. १७.११. ५८४.१) इति चतुर्थमन्द्रादिकमाद्य साम गायत्रपार्श्वम् एतन्नामधेयम् । तथा च गायत्रपार्श्व भवति । अहर्वा एतदवलीयत । तद्देवा गायत्रपार्थेन समतन्वन्। तस्माद् गायत्र- पार्श्वम् (ता. ब्रा. १४.९.२५-२६) इत्यादि ब्राह्मणमनुसंधेयम् ।। एषाहाउ (ग्राम. १७. ११.५८४.२) इति चतुर्थमन्द्रादिक द्वितीयं संतनि, यज्ञस्य संयोजकम् , एतन्नामक साम । अत्र संतनि भवतीत्यादि । एतेन साम्नां संयुनक्ति (तां ब्रा. १४. ३. ८) इति ब्राह्मणमनुसंधेयम् ।। एपस्यधा (ग्राम. १७. ११. ५८३. ३) इति द्वितीयक्रुष्टादिकम् । एपस्याधारयासुताः