पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः अध्यायः (४) १०३


वाम्रं चाक्षीलं वा ॥ ३.४.६॥

न सीमदेव आप तद् (सा. २६८) इत्यत्रैकं साम । न सीमदेव आ (ग्राम. ७.४.२६८. १) इति तृतीयचतुर्थादिकं वाम्रम् । अथवा आक्षीलं वा ॥ ६॥

शाक्राणि त्रीणि ॥३.४.७॥

आ नो विश्वासु हव्यम् (सा. २६९) इत्यत्र सामत्रयमुत्पन्नम् । आनःएविश्वाः (ग्राम. ७. ४. २६९. १) इति चतुर्थमन्द्रादिकम् । आनोविश्वासुहाव्याम् (ग्राम. ७. ४. २६९. २) इति मन्द्रचतुर्थादिकम् । आनोविश्वासुहाव्याम् (प्राम. ७. ४. २६९. ३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि शाक्राणि ॥७॥

अत्रैव ऋष्यादिभेदेन बहून् विकल्पान् दर्शयति -

वासिष्ठानि वा वैयश्वानि आश्वानि वा शौल्कानि वा सुम्नानि वा द्युम्नानि वा पृष्ठानि वा यौक्ताश्वानि वा सोमसामानि वा ॥ ३.४.८॥

वाशब्दाः पक्षान्तरद्योतकाः। एतानि त्रीणि सामानि वासिष्ठानि वसिष्ठेन दृष्टानि । चैयश्वानि व्यश्वो नाम ऋषिः । आश्वानि अश्वभूत- प्रजापतिसंबन्धीनि । शौल्कानि [शुल्कसंबन्धीनि] । सुम्नानि सुखसाधनानि । द्युम्नानि बलसाधनानि । पृष्ठानि पृष्ठसंज्ञकानि । वा उत योक्ताश्वानि युक्ताश्वो नामाङ्गिरसः । सोमसामानि वा ॥ ८ ॥

प्रजापतेश्व निधनकामम् ॥ ३.४.९॥

तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्रैक साम । तवेदिन्द्रा (ग्राम. ७.४.२७०.१) इति चतुर्थमन्द्रादिकं प्रजापतेश्च निधनकामसंज्ञम् ॥९॥