पृष्ठम्:आर्यभटीयम्.djvu/75

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ७ ] भूम्यादेयाँजनप्रमाणम् २३ भूव्यासः पञ्चाशदधिकं योजनसहस्रं भूमेव्यासः । अर्केन्द्वोः, व्यास ‘इत्यनुवर्तते । घ्रिञा चतुस्सहस्राणि दशोत्तरचतुश्शताधिकानि* श्रर्कबिम्बव्यासः । गिण पञ्चदशोत्तरं शतत्रयं योजनानां चन्द्रबिम्बव्यासः । क मेरोः एकं योजनं व्यासः । श्रप्रत्र भूम्यादीनां व्यासमात्रोपदेशात् तद्विम्बानां घनगोलाकारत्वमवसीयते । वर्तुलाकारत्वे हि व्यासप्रमाणं वर्तुलघनप्रमाणं च* वक्तव्यं स्यात् । न चोक्तम् । तेन घनगोलाकारा एव भूम्यादयः । भृगु-गुरु-बुध-शनि-भौमाः भृग्वादीनां बिम्बानां योजनव्यासाः क्रमेण शशि-ङ-ञ-ण-न-मांशकाः शशिबिम्बयोजनव्यासस्य ङांशः पञ्चमांशो भृगोबिम्बस्य योजनव्यासः, ञांशो दशमांशो गुरोः, णांशः पञ्चदशांशो* बुधस्य, नांशः विशतिभागः शनेः, मांशः पञ्चविशतिभागोऽङ्गारकस्य* योजनव्यासः । श्रप्रत्र चन्द्रसूर्ययोः स्वस्वकक्ष्योत्पन्नान्येव बिम्बव्यासयोजनानि, भूग्वादीनां तु' चन्द्रकक्ष्योत्पन्नान्येव बिम्बव्यासयोजनानीति दृक्संवादात् सम्प्रदायाविच्छेदाच्चावगच्छामः । तेन चन्द्रकक्ष्यायामेते एतादृशा उपलभ्यन्ते इत्यर्थः । समार्कसमाः । समा वर्ष युगसम्बन्धि अर्कसमा अर्कभगणसमाः युगार्कभगणप्रमाणमेव, युगरविवर्षप्रमाणमित्यर्थः । एतेन युगरविभगणाः ‘मनुयुग श्ख' (गीति० 5) इत्यादिषु निदिष्टस्य युगस्य प्रमाणमुक्तमित्यवगन्तव्यम् । एवमिदं षष्ठं गीतिसूत्रम्' ।।७।। treat-1. D. Gap for stag to 3rfeit, next line. 2. E. adds strf 3. D. om. 4. E. पञ्चदशभागो 5. D. E. vïhet for yriërste 6. D. E. add strf 7. The mss. do not read these verse-colophons uniformly. Thus : A. E. read it as printed; B.C. as Qafhd. षष्ठम् , and D. merely as treet These variations, being of a minor character, are not recorded hereafter, unless required for some specific reason.