पृष्ठम्:आर्यभटीयम्.djvu/68

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ቄ & गीतिकापादे [ गीतिका० [ चन्द्रोच्चभगणादिः । तृतीयेन गीतिसूत्रेण चन्द्राद्यच्च-चन्द्रपातानां भगणान् भगणारम्भकालं' चोपदिशति चन्द्रोच्च ज्रुप्खिध, बुध सुगुशिथुन, भृगु जषबिखुछु, शेषार्काः । बुफिनच पातविलोमा बुधाह्न्यजाक्रोदयाच्च लङ्कायामू ॥ ४ ॥ अस्य सूत्त्रस्य पदानि-चन्द्रोच्च, ज्त्रुखिध, बुध, सुगुशिथृन, भृगु, जषबिखुछु, शेष, आर्काः बुफिनच, पातविलोमाः, बुधाह्नि, अजाक्रोदयात् , च, लङ्कायाम् । त्त्रिपाद्यां ‘युगभगणा' इति शब्द: सम्बध्यते । चन्द्रोच्च चन्द्रोच्चस्य । युगभगणाः ‘ज्ञ्श्रुष्खिध ॥ ‘इन्दूच्चस्य नवैकाश्विवसुप्रकृतिसागराः' (4,88,219), (लघुभास्करीयम्, 1. 12) एतच्च' चन्द्रान्मन्दगतित्वान्मन्दोच्चम् । बुध, उच्चपदं पूर्ववदनुवर्तनीयम्, बुधोच्चस्य युगभगणाः ‘सुगुशिथृन' ॥ ‘बौधाः खाश्विखसप्ताग्निरन्ध्रशैलनिशाकराः' (1,79,37,020), (लघुभास्करीयम् , 1. 12). मृगु भृगूच्चस्य युगभगणाः जषबिखुछृ, ‘भार्गवस्याष्टवस्वग्नियमदस्राम्बराद्रय:’ (70,22,388), (लघुभास्करीयम् , 1.13). शेषं शेषाणां कुजगुरुशनीनाम् , उच्चस्य युगभगणा आर्काः, श्रर्कस्येमे श्रार्काः, श्रादित्ययुगभगणा एव । ‘ख्युघृ'संख्याः शेषाणां त्त्रयाणां उच्चभगणा इत्यर्थः । एतानि बुधादीनां प्रतिपादितान्युच्चानि' तत्तद्ग्रहाच्छीघ्रगतित्वाच्छीघ्रोच्चानि । श्रत्त्र शेषग्रहेष्वादित्यो न गण्यते, तद्भगणस्यैवोच्चभगणत्वातिदेशात् , तथा च सर्वदा केन्द्रस्य शून्यत्वप्रसङ्गाच्च । बुफिनच पातविलोमाः कुजादिपातानां वक्ष्यमाणत्वात् रवेविक्षेपोपदेशाऽभावेन पाताऽनुपयोगाच्च चन्द्रस्यैवायं पातः । तस्य चन्द्रपातस्य विलोमा vri- 1. D. E. जुं for जत्रु. व्याख्या-1. D. कालादिकं 2. D. E. it for it. 3. D. TAFTorsög: ; E. TATTUT:, and om. Difī RTS: 4. E. Wii 5. C. qề VạT ; E. om. V 6. E. affs (wr.). 7. B. C. उंचभगणानि