पृष्ठम्:आर्यभटीयम्.djvu/54

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
व्याख्यातुरुपोद्धातः

[ ज्योतिइशास्त्रमहिमा ]

'स्वाध्यायोऽध्येतव्य:' ( तै० उ० २.१५.७ ), 'स्वाध्यायमधीयते' ( मा० शतपथ-ब्राह्मणम्, ११.५.६.८ ) इत्यर्थज्ञानपर्यन्ताध्ययनविधानेन अर्थज्ञानोपायतया अर्थाभिहितस्य[१] अङ्गाध्ययनस्य 'तस्माद् ब्राह्मणेन निष्कारणं[२] षडङ्गो वेदोऽध्येतव्यः'[३] ( महाभाष्यम् पस्पशाह्निकम् ) इति निष्कृष्य विधानात्वे,

वेदाङ्गानि च सर्वाणि कृष्णपक्षे तु[४] सम्पठेत्।

इत्यङ्गाध्ययनस्य कालक्तृप्तिविधानात्,[५]

छन्द: पादौ तु वेदस्य, हस्तौ कल्पोऽत्र[६] पठ्यते।
मुखं व्याकरणं प्रोक्तं,[७] ज्योतिषी नेत्रमच्यते।
शिक्षा प्राणस्तु वेदस्य, निरुक्तं श्रोत्रमुच्यते॥
                                   (पाणिनीयशिक्षा, ४१-४२)

इत्यङ्गविशेषक्लूप्तिस्मरणेन तत्तदङ्गाध्ययनाभावे वेदपुरुषस्य तत्तदङ्गवैकल्यं भवति । तस्मात् त्रैर्वाणकै[८]र्वेदवदध्येतव्यतया विहितेषु षट्स्वप्यङ्गषु—

मुखमखं शरीरस्य सर्वे वा मखमच्यते। तत्रापि नासिका श्रेष्ठा श्रेष्ठे तत्रापि चक्षयी॥

इति न्यायेन वेदपुरुषस्य चक्षुष्ट्वेन प्रधानाङ्गमवश्यमध्येतव्यमिति संस्मृत्यादौ[९] भगवता ब्रह्मणा बहुविस्तरं ज्योतिश्शास्त्रं कृतम्। ब्रह्मणः सकाशादधीततच्छास्त्रो वृद्धगर्गस्तत् संक्षिप्य अन्यच्चकार। तस्मादपि लब्धतद्विद्याः [१०]पराशरादयो मुनयोऽप्यन्यानि ज्योतिश्शास्त्राणि चक्रु:। तथा च वृद्धगर्गः—

स्वयं स्वयम्भुवा दष्ट चक्षुर्भूतं द्विजन्मनाम्।
वेदाङ्ग ज्योतिषं ब्रह्मसमं वेर्देवनिस्सृतम्[११]

व्याख्या–

  1. C. E. अर्थविहितस्य
  2. E. निष्कारणः
  3. E. वेदोऽध्येयः
  4. A. C. पक्षेषु; E. gap for तु
  5. E. कालविशेषस्मरणात्
  6. E. कल्पोऽथ
  7. E. तस्य for प्रोक्तं
  8. E. तत्तदङ्गवैकल्यदोषापत्तेश्च उपनीतस्त्रैवणिकैः
  9. E. मध्येतव्यं ज्योतिषामयनम्। तत्र नानाशाखासु विप्रकीर्णस्य ज्योतिषविषयस्य वेदभागस्यार्थान् संस्मृत्यादौ
  10. B. C. पराशरादिमुनयो
  11. B. C. विनिस्मृतम्