पृष्ठम्:आर्यभटीयम्.djvu/194

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  द्रष्टारं मध्ये कृत्वा तस्योपर्यधोभावेन स्थितम् इष्टग्रहप्रापि यद् वृत्तं तद् वृङ्मण्डलं ज्ञेयम्' । तथा पूर्वक्षितिजेन यः स्पृष्टोऽपमण्डलप्रदेशः तस्मात् त्रिराश्यूनापमण्डलप्रदेश*स्पृक् द्रष्टुरूध्वाधःस्थितं वृक्क्षेपमण्डलं ज्ञेयम् ॥

 एतदुक्तम्° – सममण्डल-तद्दक्षिणोत्तरमण्डलयोरुपर्यधः सम्पात‘प्रापि इष्टग्रहस्पृग् अधऊध्र्व कल्पितं वृत्त दुङ्मण्डलम् । उदयलग्नाद् राशित्रयं विशोध्य यस्सिद्धोऽपमण्डलप्रदेश: तत्प्रदेशपूर्वोक्ताध'ऊध्र्वस्वस्तिकप्रापि श्रधऊध्र्वकल्पितं वृत्तं दृक्क्षेपमण्डलं नाम । एतच्च तत्कालदृश्यापवृत्तार्धस्य राशिषट्कात्मकस्य मध्यप्रदेशप्रापि?त्वात् तदृक्षिणोत्तरमण्डलं भवति । तथाहिनिरक्षदेशे तावत् पूर्वस्वस्तिकोदयकाले विषुवदुन्मण्डलसम्पातस्पृक् मीनमेषसन्धिरेवोदयलग्नम् । तथाविध:* कन्यातुलासन्धिरस्तलग्नम्' । धनुर्मुगसन्धिर्दूक्षेपलग्नम् । तच्च' उदयास्तलग्नयोर्दक्षिणोत्तरमण्डलासक्ति'साम्याद् दक्षिणोत्तरमण्डलस्पृगेव भवतीति तदेव दृक्क्षेपवृतं भवति । यदा मेषान्त उदयलग्नं, तुलान्तोऽस्तलग्नं, मकरान्तश्च दृक्क्षेपलग्नं, तदा उदयलग्नस्य विषुवत उत्तरेण वलितत्वात्, ग्रस्तलग्नस्य दक्षिणेन वलितत्वाच्च, तस्माद्याम्यदिक्स्थं तल्लग्नं दक्षिणोत्तरमण्डलात् पूर्वतो वलते, यतस्तत्र दक्षिणोत्तरमण्डल°मस्तलग्नप्रत्यासन्नं भवति, उदयलग्नाद् विप्रकृष्टं च । अतो दृश्यापवृत्तार्धमध्यप्रदेशः पूर्वतो वलत इति युक्तम् ।। **एवं वृषान्तोदयकालेऽपि* तत्पूर्वतो वलते । यदा' मिथुनान्त उदय"लग्नम्, मीनान्तो दृक्क्षेपलग्नम्, तदा दृक्क्षेपलग्नस्य विषुवत्स्पृष्टत्वात् उदयास्तलग्नासक्तिस्तुल्या' ग्रतस्तेद्दक्षिणोत्तर

E. om. qèRT व्याख्या- 1. E. विज्ञेयम् 2 3. D. E. add Taft 4. E. adds ga. 5. A. C. पूर्वोत्तराध 6. A adds here a thirt 7. A. C. om. arfą 8. D, E. तथाविध 9. A. Hapl. om. : KTA i Qat: to First HEa, next line. 10. E. तदा च 11. E. मण्डलासकते: 12. A. C. om. HOST 13. E. om. : [gaĨ*** to ąttà) y T, next line. 14. A. C. astrictsf 15. A. यथा 16. A. मिथुनान्तोदय ; E. मिथुनन्तू उदय 17. D. E. सक्तितुल्या 18. D. अधरुताद्दक्षिण