पृष्ठम्:आर्यभटीयम्.djvu/158

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቄ c & कालक्रियापादे [ काल० मन्दोच्चं शोधयेत् । शिष्टं केन्द्रम् । तत्र राशित्रयं पदम् । तत्र सम्पूर्ण' पदं त्यक्त्वा वर्तमानपदगताद्राश्यादिकादोजपदे’ क्रमज्या:, समे तूत्क्रमज्या: ग्राह्याः । कथम् ? पदगतं राश्यादिक कलीकृत्य ‘मख्या' (225) विभज्य लब्धाडूसमानि ज्यार्धानि, ग्रोजपदे’ ‘मख्या'दित:, समे 'छा'दितश्च सम्पिण्ड्य 'मखि'शेषम् ग्रनन्तरज्याखण्डेन हत्वा ‘मख्यं'व विभज्य लब्धं पूर्वपिण्डे योजयेत् । एवं सर्वत्र क्रमोत्क्रमज्याकरणम् । एवं निष्पन्नं क्रमगुणमुत्क्रमगुणं वाऽर्कचन्द्रयोः स्वस्वपरिधिना हत्वा ग्रशीत्या विभज्य लब्धस्य चापं ग्रहफलं कलात्मक भवति । 'कुजादीनां तु ओजयुग्मपरिध्यन्तरहतां' तत्पदज्यां त्रिज्यया विभज्य लब्धं फलं' ऊने स्वपदपरिधौ' क्षिपेत्, ग्राधिकाच्छोधयेत् । सा° स्फुटपरिधिर्भवति । तेन ज्यां हत्वाऽशीत्या विभज्य लब्धस्य चापस्य' ग्रहफल कलात्मक" भवति । एवं मन्दकर्मणि । शीघ्र" तु मन्दफलसंस्कृत"ग्रहविशुद्ध शीघ्रोच्च केन्द्र भवति। अत्र ओजपदे गत*गम्ययोः' क्रमज्ये ग्राह्य । तयोर्गतज्या बाहुज्या, गम्यज्या' कोटिज्या इत्यभिधीयते । युग्मे तु गतस्य क्रमोत्क्रमज्ये, गन्तव्यस्य क्रमज्यां च गृह्णीयात् । तत्र गतक्रमज्या कोटिः, गन्तव्यक्रमज्या वाहुः । ततः पूर्ववदोजे" गतक्रमगुणेन, युग्मे गतोत्क्रमगुणेन च' स्फुटपरिधि' संसाध्य तेन ग्रोजपदे' ज्याद्वयं, युग्मे ज्यालयं च हत्वा, अशीत्या विभजेत् । लब्धम् ओजे गत*"क्रमगुणोत्पन्नं बाहुफलसंज्ञम् , गन्तव्यक्रमगुणोत्पन्नं* कोटिफलसंज्ञम् । युग्मे गत**- व्याख्या- 1. E. ग्रतीतं for सम्पूर्ण 2. D. ओजे पदे 3. C. ओजे पदे 4. B. long om. of Trátaf to aệcài Hrâtą tą, p. 108, line 7. 5. E. तरघ्नां 6. C. त्रिज्यालब्ध फलं 7. D. स्वपरिधी 8. A. C. E. FI: ; D. om. NTT 9. D. E. TTTT 10. E. om.. afriTTRA-Hafi 11. E. शीघ्रकमणि 12. A. città ܐ 13. A. C. ग्रोजपदगत ; E. ग्रोजपदे पदगत 14. E. गन्तव्ययोः 15. E. Hapl. om. of TTTTTT 16. A. C. D. पूर्ववदौजे 17. E. om. TaT 18. A. C. E. qfift: 19. D. E. 2g(qà 20. A. ओजगत 21. E. क्रमज्योत्पन्नं 22. A. C. g. HTet s