पृष्ठम्:आर्यभटीयम्.djvu/139

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः ५ ] सौरचान्द्रादिमानम् ८७

कलियुगगत(1) सावनाद्विशोध्य शेषे 'नीतिगै:' (360) विभक्तेऽब्दाः । तच्छेषे ‘नगै:' (30) हृते(2) मासाः । शेषा वर्तमानसावनमासगत(3) दिनानि । श्रोत्र वर्षादिदिवसस्याधिपतिर्वषधिपति: मासादिदिनस्या(4) धिपतिमसिाधिपति: । 'उक्त च-'ग्राद्यवारवतोब्दादि:'इति । ग्रत्र व 'फले त्रिघ्ने सरूपे सप्तहुते शेषोऽर्काद् वर्षाधिपतिः' । मासफले द्विगुणिते सरूपे सप्तहुते' शेषे वर्षपात्प्रभुति मासप इति ज्ञेयम्' । एवं यस्य ग्रहस्य भगणाः कुभगणेभ्यो विशोध्यन्ते, शेषा*स्तद्ग्रहसावनदिवसा भवन्ति । इति सावनं मानम् ।।' भावर्ताश्चापि नाक्षत्राः । भानामश्विन्यादीनामावतों भावर्त: । चन्द्रभगणभोगकालो नाक्षत्रो मासः । उक्तं च दर्शाद्दर्श चान्द्रस्त्रिंशद् दिवसास्तु सावनो मासः । सौरोऽर्कराशि“भोगान्नाक्षत्त्रं'1 चेन्दुमण्डलतः ॥ इति ।। 1*भचक्रस्यैकः परिवर्तः एको नाक्षत्र'*दिवसः इत्येतद् ‘गुर्वक्षराणि षष्टि:’ (काल० 2) इत्यत्रैवोक्तम् ।। इति पञ्चमं सूत्रम् ।। ५ ।। [ प्रधिमासावमदिनानि । युगाधिमासावमरात्रज्ञानमाह'- अधिमासका युगे ते रविमासेभ्योऽधिकास्तु ये चान्द्राः । शशिदिवसा विज्ञेया भूदिवसोनास्तिथिप्रलयाः ॥ ६ ॥ व्याक्या-1. A. B. C. D. om कलि; E. कलिगत. 2. E. om. हृते 3. D. E, यात for गत 4. C. D. दिवसस्य 5. E. om. उक्तं च to मासप इति, below. 6. D. वर्षाधिप 7. D, सप्तविभक्ते 8. B. C. ज्ञेयः ; E. श्रप्रवगन्तव्यम् 9. B, शेषात् 10. D. मास for राशि 11. B. भोगा नाक्षत्रं ; C. भोग नाक्षत्रं; E. °भोगा नक्षत्रं 12. E. राशि for भ 13, C, D, om. नाक्षत्र 14. E. ज्ञानमार्ययाह