श्लोकः २] क्षेत्रविभागः ።ꬃ
'प्राणेनैति कलां भम्' (गीतिका० 6) इति। अन्येषां मानानां विनाडिका स्वषष्टिभागपरिच्छिन्नैव भवति ।
[ क्षेत्रविभागः ]
उक्तं कालविभाग^1मुपसंहृत्यामुमेव प्रकारमार्योत्तरार्धेन क्षेत्रेऽप्यतिदिशति^2-
एवं कालविभाग: क्षेत्रविभागस्तथा भगणात् ॥ २ ॥
यथा कालविभागो वर्षात् प्रभृत्युक्तः, एवं क्षेत्रविभागो भगणात् प्रभृति प्रतिपत्तव्य:^3 । तद्यथा-एको'^4 भगणो द्वादश राशयः । एको राशिस्त्रिशद् भागाः, एको भागः षष्टिः कलाः । एतच्च दशगीतिकायामुक्तं ‘शशिराशय:' (गीतिका० 6) इत्यत्र्त । एका कला षष्टिविकला:, एका विकला षष्टिस्तत्परा इत्यवयवान्तरमभिधानान्तरात् सिद्धम् । उक्तं च-
भगणो राशिर्भागः कला च विकला च तत्परा चैव | क्षेत्रस्यैताः संज्ञाः कालविभागेन तुल्याः स्युः || इति द्वितीयं सूत्रम् || २ || [ ग्रहयोगः ]
द्वियोगपरिज्ञानायार्यापूर्वार्धेनाह-
भगणा द्वयोर्द्वयोर्ये विशेषशेषा युगे द्वियोगास्ते ।
द्वयोर्द्वयोर्ग्रहयोः अधिकसंख्येभ्यो गीतिकोक्तभगणेभ्योऽल्पसंख्यान् भगणान् विशोध्य ये यावन्तः शेषभगणाः ते तावन्तो युगे द्वियोगाः द्वयो^5र्द्वयोर्ग्रहयो-
व्याख्या-1. D. विभागप्रकार
2. E. क्षेत्रेऽप्युक्तरार्धेनातिदिशति 3. B. प्रभृति वक्तव्यः; C. प्रभृति प्रतिवक्तव्यः 4. C. एकैको 5. A.B.C. Hapl. om. of द्वयोः ; E. तयोः
आयं० - ११